🕉️ 23 November 2026, Monday · 07:55:05 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

आततायिन्
ātatāyin
🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
आततायिन् mfn. having one's bow drawn, VS. xvi, 18
‘one whose bow is drawn to take another's life’, endeavouring to kill some one, a murderer, Mn. viii, 350 seq.; MBh. &c. (in later texts also incendiaries, ravishers, thieves &c. are reckoned among आततायिनस्).
📄 मूल मुद्रित पृष्ठ (134,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
आततायिन् a. or s. [आततेन विस्तीर्णेन शस्त्रादिना अयितुं शीलमस्य Tv.] 1 ‘One whose bow is stretched to take another's life’, endeavouring to kill some one; a desperado; गुरुं वा बालवध्वौ वा ब्राह्मणं वा बहुश्रुतं । आततायिनमायांतं हन्यादेवाविचारयन् ॥ Ms. 8. 350-1; Bg. 1. 36. --2 Any one who commits a heinous crime, such as a thief, ravisher, murderer, incendiary, a felon &c; अग्निदो गरदश्चैव शस्त्रोन्मत्तो धनापहः । क्षेत्रदारहरश्चैतान् षड् विद्यादाततायिनः ॥ Śukra. ˚ता, --त्वं murdering, stealing, destroying &c.
📄 मूल मुद्रित पृष्ठ (0232-c)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
आततायिन् त्रि० आततेन विस्तीर्णेन शस्त्रादिना अयितु शीलमस्य अय--णिनि । बधोद्यते । विषयभेदेन आततायि बधे दोषादोषौ” प्रा० वि० उक्तौ यथा वृह० “नाततायिवधे हन्ता किल्विषं प्राप्नुयात् क्वचित् । विनाशार्थिनमायान्तं घात- यन्नापराध्नुयात्” । किल्विषाभावःप्रायश्चित्तनिषेधार्थः अप- राधा भावोदण्डनिषेधार्थः । यतः “सर्वत आत्मानं गोपा- यातेति” श्रुतिमूलमिदम् अतः पलायनादिनापि रक्षणा भावे इदं बोद्धव्यम् । कात्यायनः । “आततायिनमायान्त मपि वेदान्तगं रणे । जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत्” जिघांसी सन् इयाद्गच्छेदित्यर्थः । देवलः । “उद्यम्य शस्त्रमायान्तं भ्रूणमप्याततायिनम् । निहत्य भ्रूणहा न स्यादहत्वा भ्रूणहा भवेत्” । भ्रूणोब्राह्मणविषेषः । दोष- दर्शनं नियमार्थम् । मनुविष्णू । “गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवावि- चारयन्” एवकारोनियमार्थः । तथा “नाततायिबधे दोषो हन्तुर्भवति कश्चन । प्रकाशं वाऽप्रकाशं वा मन्युस्तन्मन्युमृ- च्छति” । यस्माद्धन्तृमन्युर्हन्यमानमन्यु नाशयति न पुनः पुरुषोहन्ति हन्यते वेति हननविधेरपवादः । आततायिन- [] माह वशिष्ठः । “अग्निदोगरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहारी च षडेते आततायिनः” । विष्णु- कात्यायनौ । उद्यतासिविषाग्निञ्च शापोद्यतकरन्तथा । आथर्व्वणेन हन्तारं पिशुनञ्चैव राजसु । भार्य्यातिक्रमि- णञ्चैव विद्यात्सप्ताततायिनः । यशोवित्तहरानन्याना- हुर्द्धर्म्मार्थहारकान्” । विशेषमाह कात्यायनः । “अना- क्षारितपूर्व्वोयस्त्वपराधे प्रवर्त्तते । प्राणद्रव्यापहारे च प्र- वृत्तस्याततायिता” । अनाक्षारितोऽनपकृतः । तेन पूर्व्वकृ- तापकारस्य मारणोद्यतस्य नाततायिता । तेन प्रत्युपका- रकवधे दोषएव । ननु आततायिनोरपि गोब्राह्मणयोर्हन- ने दोषमाह सुमन्तुः । “नाततायिबधे दोषोऽन्यत्र गोब्रा- ह्मणात् यदा हन्यात् प्रायश्चित्तं कुर्य्यात्” । तथा भविष्ये । “घातकानपि गोविपान्न हन्याद्वै कदाचनेति” । अतःपू- र्व्ववचनविरोधः । सत्यम् । अत्र व्यवस्थामाह कात्यायनः । “आततायिनि चोत्कृष्टे तपःस्वाध्यायजन्मतः । बधस्तत्र तु नैव स्यात् पापे हीने बधोमतः” । जन्मपदेन जातिः कुलञ्चोच्यते । तेन हन्त्रपेक्षया तपोविद्याजातिकुलैरुत् कृष्टोनायतायी बध्यस्तदन्योबध्यएव । अतएव भगवद्गीताया माह । “पापमेवाश्रयेदस्मान् हत्वैतानाततायिन” इति । एतान् भीष्मादीन् अत्यन्तोत्कृष्टगुणानित्यर्थः । एवंभूता- ततायिनश्चाहनने फलमप्याह वृहस्पतिः । “आतता- यिनमुत्कृष्टं वृत्तस्वाध्यायसंयुतम् । योन हन्याद्बधप्राप्तं- सोऽश्वमेधफलं लभेत्” । यद्यपि “गुरुम्बहुश्रुतं हन्यादिति” । श्रूयते । तथापि गुरोः सकाशात् कुलविद्यातपोभिः शिष्य- स्याप्युत्कर्षसम्भवः । एवं बहुश्रुतादावपि । एवमधमवर्ण- स्योत्तमवर्ण्णो न बध्यः । पूर्व्वकृतापकारविषयं वा सुमन्तुवच- नम् । गौरातताय्यपि न बध्यः । “नखिनां शृङ्गिणाञ्चैव दंष्ट्रिणाञ्चाततायिनाम् । हस्त्यश्वानान्तथान्येषां बधे हन्ता न दोषभागिति” कात्यायनवचनं गोव्यतिरिक्तशृङ्गिविषयम् । विशेषमाह कात्यायनः । उद्यतानान्तु पापानां हन्तुर्दोषो न विद्यते । निवृत्तस्तु यदारम्भाद्ग्रहणं न बधःस्मृतः” इत्यन्तेन । तत्रत्यम्रूणशब्दार्थमाह देबलः “अनूचानो गुणो- पेतो यज्ञस्वाध्याययन्त्रितः । भ्रूण इत्युच्यते शिष्टैः शेषभोजी जितेन्द्रियः” । मिताक्षरायामपि “गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्या- देवाविचारयन् । नाततायिबधे दोषो हन्तुर्भवति कश्चन । प्रच्छन्नं वा प्रकाशं वा मन्युस्तन्मन्युमृच्छति” । तथा “आततायिनमा
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬