आतपवर्ष्य त्रि० आतपे निमित्तेसति वर्षन्ति बा० कर्त्तरि यत् । वृष्टिजले “अन्तरिक्षात् प्रतिगृह्यातपवर्व्याः” कात्या० १५, ४, ५, अन्तरिक्षात् ग्रहीतव्या आतपवर्षणाः या आतपे वर्षन्ति ताः । अन्तरिक्षात् प्रतिगृह्य भूमिपतनात् प्रागेवाकाशात् पतन्तीरादाय ग्रहीतव्या” कर्क० । अतएव वृष्टिजलस्यातपनिमित्तत्वात् नैमित्तिकत्वाभि- प्रायेण तासां यज्ञकाले ग्रहणासम्भवेन पूर्व्वं संग्राह्यतो- क्ता “यूपमुत्तरेण नैमित्तिक्यसम्भवात्” कात्या० १५, ४२ [] “या आपोनिमित्तेन प्राप्यन्ते ता नैमित्तिक्यः यथा गोरुण्व्याः आतपवर्ष्यास्तासामस्मिन् काले ग्रहणासम्भ- वात् अतः पूर्व्वं गृहीत्वा यूपमुत्तरेण पुनर्ग्रहणमिति” कर्कः । अतएव श्रुत्या वृष्टेरातपनिमित्तत्वमुक्तम् “तस्माद्यत्र क्वचित् शोचति स्वेदते वा पुरुषस्तेजस एव तदध्यापोजायन्ते” इति छा० उ० पुरुषदेहस्य सन्ताप स्वेदयोरातपनिमित्तत्वात् वृष्टेरातपहेतुकत्वम् । व्यक्तमाह यादवः “तासां शतानि चत्वारि रश्मीनां वृष्टिसर्ज्जने चतुः शतं वृष्टिवाहाः सर्व्वास्ता अमृताः स्त्रियः” इति सूर्य्य- रश्मीनां मध्ये चतुःशतस्य वृष्टिषर्ज्जकत्वेन वृष्टेरातप- निमित्तकत्वमत्र व्यक्तमेव ।
📄 मूल मुद्रित पृष्ठ (0650-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।