आतुर्य्य न० आतुरस्य भावः ष्यञ् । १ आतुरत्वे २ फलनाशके ज्वरांशभेदे च “ज्वरांशाश्च वस्तुभेदेन नानाविधाः” हरि० १८३ अध्या० दर्शिताः । “कृष्णौवाच । शृणुष्व ज्वर । सन्देशं यथा लोके चरिष्यसि । सर्व्वजातिषु विन्यस्तस्तथा स्थावर जङ्गमे । त्रिधा विभज्य चात्मानं मत्प्रियं यदि काङ्क्षसे । चतुप्पदान् भजैकेन द्वितीयेन च स्थावरान् । तृतीयो यश्चतुर्भागो मानुषेषु प्रपत्स्यसे । त्रिधा भूतं वपुः कृत्वा पक्षिषु त्वं भव ज्वर! । चतुर्थो यस्तृतीयस्य भविष्यति च ते ध्रुवम् । एकान्ततश्चतुर्भागः खीरकश्च चतुर्थकः । मानुषे- ष्वेकपादेन वस त्वं प्रविभज्य वै । जातिष्वथ विशेषासु शिवसत्वं शृणुष्व मे । वृक्षेषु कीटरूपेण तथा सङ्कोच पत्रकः । पाण्डुपत्रश्च विख्यातः फलेष्वातुर्य्यमेव च पद्मिनोषु हिमोभूत्वा पृथिव्यामपि चोषरः । अपान्तु पीलिकां विद्याः शिखोद्भेदश्च वर्हिणाम् । गैरिकः पर्वते- ष्वेव मत्प्रसादाद्भविष्यसि । गोष्वपस्मारको भूत्वा खोरकश्च भविष्यसि । एवं विविधरूपेणभविष्यसि महीतले । दर्शनात् [] स्पर्शनाच्चैव प्राणिनां बधमेष्यसि । ऋते देवमनुष्यांश्च नान्यस्तां विषहिष्यते” । “आतुर्य्यं जालकैकदेशे सङ्कोचः नीलकण्ठः ।
📄 मूल मुद्रित पृष्ठ (0660-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।