आदिकाव्य न० आदि आद्यं काव्यं पादचतुष्ठयरूपच्छन्दोबद्धं वाक्यम् । बाल्मीकिरचिते रामायणे तस्य चाद्यकाव्यत्वं दर्शितं तत्रैव आदिका० २ सर्गे “ददर्श क्रौञ्च- योस्तत्र मिथुनं चारुदर्शनम् । तस्माच्च मिथुनादेकमाग- त्यानुपलक्षितः । जघान बद्धानुशयो निषादो मुनिसं- निधौ । तं शोणितपरीताङ्गं चेष्टभानं महीतले । दृष्ट्वा क्रौञ्ची रुरोदार्ता करुणं खेपरिभ्रमा । तं तथा निहतं दृष्ट्वा निषादेनाण्डजं वने । मुनेः शिष्यसहायस्य कारुण्यं समजायत । ततः करुणवेदित्वाद्धर्म्मात्मा स द्विजोत्तमः । [] निशम्य करुणं क्रौञ्जीं रुदतीं तां जगाविदम् । मा नि- षाद! प्रतिष्ठां त्वमगमः शाश्वतीःसमाः । यत्क्रौञ्चमिथुना- देकमबधीः काममोहितम् । तस्येदमुक्त्वा वचनं चिन्ताभूत् तदनन्तरम् । शकुनं शोचता ह्येवं किमतेद्व्याहृतं मया मुहूर्त्तमिव च ध्यात्वा वाक्यं तत् प्रविमृष्य च । शिष्यमाह स्थितं पार्श्वे भारद्वाजमिदं वचः । पादैश्चतुर्भिः संयुक्तमिदं वाक्यं समाक्षरैः । शोचतोक्तं मया यस्मात् तस्माच्छ्लोको भवत्विति” । एवं चिन्तयतस्तस्याश्रमे स्वयं ब्रह्मणागत्यो- पदिष्टम् । “महर्षे! यदथं प्रोक्तस्त्वया क्रौञ्चबधाश्रयः । श्लोक एवास्त्वयं बद्धस्तव वाक्यस्य शोचतः । स्वच्छन्दा- देव ते ब्रह्मन्! प्रवृत्तेयं सरस्वती । रामस्य चरितं कृत्स्नं कुरुत्वमृषिसत्तम”! इत्युपदिष्टस्य वाल्मोकेः रामायणरचने- मतिरभूत् यथाह तत्रैव । “तस्य बुद्धिरभूत् तत्र वाल्मी- केरथ धीमतः । कृत्स्नं रामायणं श्लोकैरीदृशैः करवाण्य- हम्” इत्येवमभिनिवेशं कृत्वा कृत्स्नं रामायणं कृतमिति सर्गशेषे तत्रैवोक्तम् “ततः स रामस्य चकार कीर्तिमान् । समाक्षरैः श्लोकशतैर्यशस्विनो यशस्करं काव्यमुदा- रधीः परम्” । इह लोके चतुष्पादश्लोकस्यादौ तेनैव प्रचा- रणात् तत्कृतकाव्यस्यादिकाव्यत्वम् । वेदे तु बहूनामनुष्टु- प्छन्दस्कानां श्लोकानां सत्त्वेऽपि लोके प्रथमप्रचारा भावात्तस्याद्यत्वम् । तेन “ईशा वास्यमिदं सर्व्वं यत् किञ्च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम्” इत्युपक्रमे “असुर्यानाम ते लोका अन्धेन तमसा वृताः । तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः” इत्यादयः श्लोकाः शु० य० वे० ४० अध्याये पठिताः । एवम् ऋग्वेदादावपि बहबः तथाविधाः सन्ति” तथा च वेदे सत्त्वेऽपि लोके तेन प्रथमप्रचारणात्तस्याद्यका- व्यत्वम् । यत् तु उत्तरचरिते “चित्रमाम्नायाद- न्याऽयं नूतनश्छन्दसामवतार” इति वर्ण्णितम् तत् यथा श्रुतार्थेऽसङ्गतमेव । अन्यः लोकसिद्धवाक्यादित्यध्याहारेण आम्नायात् आम्नायं वेदं मूलत्वेन प्राप्य छन्दसां नवावतारैति व्याख्याने तु न कोऽपि दोष इति युक्तम् ।
📄 मूल मुद्रित पृष्ठ (0695-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।