आधिबन्ध पु० आधिः बहुप्रजानां कथं पालनं स्यादिति चिन्ता एव बन्धः । बहुप्रजारक्षणार्थचिन्तारूपबन्धे । “कथं राजन्! प्रजारक्षन्नाधिबन्धेन युज्यते” युधिष्थिरप्रश्ने तच्चिन्ताधिरूपबन्धनिवारणाय यथा राज्ञाचरणीयं तथोक्तं तं प्रति भीष्मेण भा० शा० ७० अ० “समासेनैव ते राजन्! धर्मान् वक्ष्यामि शाश्वतान् । विस्तरे- णेह धर्माणां न जात्वन्तमवाप्नुयात् । धर्मनिष्ठान् श्रुत- वतो देवव्रतसमाहितान् । अर्च्चयित्वा यजेथास्त्वं गृहे गुणवतो द्विजान् । प्रत्युत्थायोपसंगृह्य चरणावभिवाद्य च । अथ सर्व्वाणि कुर्व्वीथाः कार्य्याणि सपुरोहितः । धर्म्मकार्य्याणि निर्वर्त्य मङ्गलानि प्रयुज्य च । ब्राह्मणान् वाचयेथास्त्वमर्थसिद्धिजयाशिषः । आर्ज्जवेन च सम्पन्नो धृत्या बुद्ध्या च भारत! । यथार्थं प्रतिगृह्णीयाः काम- क्रोधौ च वर्ज्जयेः । कामक्रोधौ पुरस्कृत्य योऽयं राजा- ज्नुतिष्ठति । न स धर्म्मं न चाप्यर्थं प्रतिगृह्णाति वा- लिशः । मा स्म लुब्धांश्च मूर्खांश्च कामार्थेषु प्रयूयुजः । अलुब्धान् बुद्धिसम्पन्नान् सर्वकर्म्मसु योजयेः । मूर्खो ह्यधिकृतोऽर्थेषु कार्य्याणामविशारदः । प्रजाः क्लिश्नात्ययो- गेन कामक्रोधसमन्वितः । बलिषष्ठेन शुल्केन दण्डेना- थापराधिनाम् । शास्त्राणि तेन लिप्सेथा वेतनेन धना- गमम् । दापयित्वा करं धर्मं राष्ट्रं नीत्या यथाविधि । तथैतं कल्पयेद्राजा योगक्षेममतन्द्रितः । गोपायितारं दातारं षर्मनित्यमतन्द्रितम् । अकामद्वेषसंयुक्तमनुरज्यन्ति मानवाः । मा स्माधर्मेण लोभेन लिप्सेथास्त्वं धनागमम् । धर्मार्थावध्रुवौ तस्य यो न शास्त्रपरो भवेत् । अर्थशास्त्र- परो राजा धर्मार्थान्नाधिगच्छति । अस्थाने चास्य त- द्वित्तं सर्वमेव विनश्यति । अर्थमूलो हि हिंसाञ्च कुरुते [] स्वयमात्मनः । करेरशास्त्रदृष्टैर्हि मोहात् सम्पीडयेत् प्रजाः । ऊधश्छिन्द्यात्तु यो धेन्वाः क्षीरार्थी न लभेत् पयः । एवं राष्ट्रमयोगेन पीडितं न विवर्द्धते । यो हि दोग्ध्रीमुपास्ते च स नित्यं विन्दते पयः । एवं राष्ट्रमुपा- येन भुञ्जानो लभते फलम् । अथ राष्ट्रमुपायेन भुज्य- मानं सुरक्षितम् । जनयत्यलां नित्यं कोषवृद्धिं युधि- ष्टिर! । दोग्ध्री धान्यं हिरण्यञ्च मही राज्ञा सुरक्षिता । नित्यं स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः । माला- कारोपमो राजन्! भव नाङ्गारिकोपमः । तथा युक्तश्चिरं राज्यं भोक्तुं शक्ष्यसि पलयन् । परचक्राभियानेन यदि ते स्याद्धनक्षयः । अथ साम्नैव लिप्सेथा धनमब्राह्मणेषु यत् । मा स्म ते ब्राह्मणं दृष्ट्वा धनस्थं प्रच लेन्मनः । अ न्त्यायामप्यवस्थायां किमु स्फीतस्य भारत । धनानि तेभ्यो दद्यास्त्वं यथाशक्ति यथाऽर्हतः । सान्त्वयन् परिरक्षंश्च स्व- र्गमाप्स्यसि दुर्ज्जयम् । एवं धर्मेण वृत्तेन प्रजास्त्वं परि- पालय । स्वन्तं पुण्यं यशो नित्यं प्राप्स्यसे कुरुनन्दन! । धर्म्मेणव्यवहारेण प्रजां पालय पाण्डव! । युधिष्ठिर! यथा युक्तो नाधिबन्धेन योक्ष्यसे । एष एव परो धर्मो यद्राजा रक्षति प्रजाः । भूतानां हि यदा धर्मो रक्षणं परमा दया । तस्मादेव परं धर्म्मं मन्यन्ते धर्म्मकोविदाः । यो राजा रक्षणे युक्तो भूतेषु कुरुते दयाम् । यदह्ना कुरुते पापमरक्ष भयतः प्रजाः । राजा वर्षसहस्रेण तस्यान्त- मधिगच्छति । यदह्ना कुरुते धर्म्मं प्रजा धर्मेण पालयन् । दश वर्षसहस्राणि तस्यभुङ्क्तेफलं दिवि । स्विष्टिः स्वधीतिः सुतपा लोकान् जयति यावतः । क्षणेन तानवाप्नोति प्रजा धर्मेण पालयन् । एवं धर्मं प्रयत्नेन कौन्तेय! परि- पालय । ततः पुण्यफलं लब्ध्वा नाधिवन्धेन योक्ष्यसे” ।
📄 मूल मुद्रित पृष्ठ (0714-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।