आपत्कल्प पु० आपद्यु चितः कल्पोविधिः शा० त० । आपत्- कालिकविधौ स च विधिर्गौतमेनोक्तः यथा “आप- त्कल्पोब्राह्मणस्याब्राह्मणाद्विद्योपयोगोऽनुगमनं शुश्रूषा- ऽऽसमाप्तेर्ब्राह्मणोगुरुः याजनाध्यापनप्रतिग्रहाः सर्व्वेषां पूर्व्वः पूर्व्वोगुरुस्तदलाभे क्षत्रवृत्तिस्तदलाभे वैश्यवृत्तिः तस्यापण्यं गन्धरसकृतान्नतिलशाणक्षौमाजिनानि रक्त- निर्णिक्ते वाससी क्षीरञ्च सविकारं मूलफलपुष्पौष- धमधुमांसतृणोदकापथ्यानि पशवश्च हिंसासंयोगे पुरुष- [] वशाकुमारीवेहतश्च नित्यं भूमिव्रीहित्यवाजाव्यश्च ऋष- भधेन्वनडूहश्चैके । विनिमयस्तु रसानां रसैः पशूनाञ्च न लवणकृतान्नयोः, तिलानाञ्च समेनामेन तु पक्वस्य संप्रत्यर्थे सर्व्वधातुवृत्तिरशक्तावशूद्रेण तदप्येके प्राणसंशये, तद्वर्णसङ्करोऽभक्ष्यनियमस्तु प्राणसंशये ब्राह्म- णोऽपि शस्त्रमाददीत राजन्यवैश्यकर्म्म, राजन्योवैश्यकर्म्म”
📄 मूल मुद्रित पृष्ठ (0742-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।