आभिचरणिक त्रि० अभिचरणं प्रयोजनमस्य ठञ् । अ- थर्व्ववेदादिप्रोक्ते शत्रुप्रभृतेर्मारणोच्चाटनवशीकरणा- दिरूपाभिचारसाधने १ मन्त्रादौ तत्साधने २ विधानभेदे च । “रौद्रं राक्षससासुरमाभिचरणिकं मन्त्रमुक्त्वा पि- त्र्यमात्मानं चालभ्योपंस्पृशेदपः” कात्या० १, १०, १४, “अभिचरणम् अभिचारः प्रयोजनमस्यासावाभिचारणिकः प्रयोजनमित्यर्थे ठञ् । “बधान देव! सवितः परमस्यां पृथिव्यां शतेन पाशै र्योऽस्मान् द्वेष्टियं च वयं द्विष्म स्तमतोमा मौक्” यजु० १, २५, “द्विषतो बधोऽसि य० १२८ इत्यादि तत्र शत्रुनामादिसंयुक्तः अभिचारार्थमेव प्रयुज्य- मान आभिचरणिक इत्युच्यते तेमाभिचरणबुद्ध्यभावे मन्त्र- स्याभिचरणप्रयोजनाभावान्नाभिचरणिकत्वम् अतस्तदुच्चारणे उदकस्पर्शाभाव” कर्कः । एवमन्येऽपि मन्त्रा अथर्ववे- दोक्ता ज्ञेयाः । तद्विधानञ्च अथववेदान्तर्गते आङ्गिर- सकल्पे विस्तृतम् । एवं तन्त्रोक्ताभिचारविधानम् तन्त्र- सारादौ विस्तृतम् । अभिचार + प्रयोजनार्थे ठञ् । आभि- चारिकोऽप्यत्र । स्त्रियामुभयत्र ङीप् ।
📄 मूल मुद्रित पृष्ठ (0754,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।