आभ्यन्तर त्रि० अभ्यन्तरे भवः अण् । मध्यवर्त्तिनि “कच्चि- दाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशाम्पते!” भा० स० प० ५ अ० । “वर्ण्णोच्चारणे, प्रयत्नो द्विधा आभ्यन्तरोबाह्यश्च आद्यश्चतुर्द्धा स्पृष्टेषत्स्पृष्टविवृतसंवृतभेदात् । तत्र स्पृष्टं प्रयतनं स्पर्शानाम् । ईषत्स्पृष्टमन्तःस्थानाम् विवृतमूष्मणां स्वराणाञ्च ह्रस्वस्यावर्णस्य प्रयोगे संवृतं प्रक्रियादशायान्तु विवृतमेव” सि० को० । “एतेषाञ्चाभ्यन्तरत्वं वर्णोत्पत्तेः प्राग्भावित्वात् “तथा हि नाभिप्रदेशात् प्रयत्नविशेषप्रेरितः प्राणवायुः ऊर्द्ध्वमाक्रामन्नुरः प्रभृतीनि स्थानान्याहन्ति ततो वर्णस्य तद्गभिव्यञ्जकध्वनेर्वोत्पत्तिः तत्रोत्पत्तेः प्राक् जिह्वाग्रो- पाग्रमध्यमूलानि वर्णोत्पत्तिस्थानं ताल्वादि यदा सन्यक् स्पृशन्ति तदा स्पृष्टता, ईषत्स्पर्शे ईषत्स्पृष्टता, समी- पावस्थाने संवृतता, दूरावस्थाने विवृतता । अतएव इचु- यशानां तालव्यत्वाविशेषेऽपि चवर्गे उच्चारयितव्ये जिह्वा- ग्रस्य तालुस्थानेन सम्यक्स्पर्शः, यकारे ईषत्स्पर्शः, शकारे, [] समीपेऽवस्थानम् इवर्णे तु दूरेऽवस्थानम्” मत्कृतसरला ।
📄 मूल मुद्रित पृष्ठ (0759-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।