🕉️ 24 November 2026, Tuesday · 02:21:36 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

आभ्युदयिक
ābhyudayika
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
आभ्युदयिक १ वि॰ [सं॰] अभ्युदय संबंधी । मंगल या कल्याण संबंधी ।
आभ्युदयिक २ संज्ञा पुं॰ [सं॰] एक श्राद्ध जिसे नांदीमुख भी कहते है । विशेष—इस श्राद्ध में दही, बैर और चावल को मिलाकर पिंड़ देते है ओर इसमें माता, दादी और परदादी को पहले तीन पिंडदेकर तब बाप, दादा, परदादा,मातामह और वूद्ब प्रमाता मह आदि को पिंड देते हैं । इनके अतिरिक्त तोनों पक्षों के तीस विश्वेदेवा होते है । उन्हें भी पिड़ दिया जाता है । यह श्राद्ध पुत्रजन्म,जनेऊ और । विवाह आदि शुभ अवसरों पर होता है । इसमें यज्ञकरनेवाले को अपसव्य नहीं होना पड़ता ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
आभ्युदयिक mfn. (fr. अभ्य्-उदय), connected with the beginning or rising of anything, Mn.
relating to or granting prosperity, Mṛcch.; Uttarar. &c.
आभ्युदयिक n. N. of a Śrāddha or offering to ancestors on occasions of rejoicing, ĀśvŚr.; Gaut.; Gobh. &c.
📄 मूल मुद्रित पृष्ठ (146,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
आभ्युदयिक a. (की f.) [ अभ्युदयठक्] 1 Tending to good, granting prosperity; अनाभ्यदयिकं श्रमणकदर्शनं Mk. 8. --2 Relating to the rise or beginning of anything; सुख˚ Ms. 12. 88. --3 High, exalted, important. --कं A Śrāddha or offering to ancestors; an occasion of rejoicing.
📄 मूल मुद्रित पृष्ठ (0248-b)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
आभ्युदयिक न० अभ्युदयः प्रयोजनमस्य ठक् । २ वृद्धिनिमित्ते श्राद्धभेदे तत्र छन्दोगानामाभ्युयिकश्राद्धविधिर्गोभिल- सूत्रछन्दोगपरिशिष्टयोरुक्तः यथा । गोभिलः । “अथाभ्युदयिके श्राद्धे युग्भानाशयेत् । प्रदक्षिणमुपचारः ऋजवो दर्भाः यवैस्तिलार्थः सम्पन्न- मिति तृप्तिप्रश्नः दधिबदराक्षतमिश्राः पिण्डाः नान्दी- मुखाः पितरः प्रीयन्तामिति दैवे वाचयित्वा नान्दी- मखेभ्यः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो माता- महेभ्यः प्रमातामहेभ्यो वृद्धप्रमातामहेभ्यश्च प्रीयन्तां, न खधाञ्च प्रयुञ्जीत” इति । “आध्युदयिके अभ्युदयनिमि- त्तके अभ्युदय इष्टलाभः विवाहादिः तदर्थं श्राद्धं आभ्युदयिकम् । तच्च भूतभविष्यद्भेदेन द्विविधं तत्र भूतं पुत्रजन्मादि भविष्यद्विवाहादि एवञ्च श्राद्धविवेकादो श्रा- द्धभेदगणने वृद्धिश्राद्धत्वेन कर्म्माङ्गत्वेन च यदुभयत्व- मुक्तं तदुभयमेवाभ्युदयिकत्वेनोपपन्नं तेनाभिलापे आ- भ्युदयिकश्राद्धमिति प्रयोज्यम् । तत्र यवैस्तिलार्थैत्यनेन पार्वणश्राद्धप्राप्ततिलस्थाने यवविधानादाभ्युदयिकस्यापि पार्व्वणप्रकृतिकत्वं प्रतीयते । अन्यथा तिलार्थैत्युपा- दानं व्यर्थं स्यात् । ततश्च पार्वण्णप्रकृतिकत्वेन पितृपक्षेऽ- युग्मब्राह्मणप्राप्तौ तन्निरासाय पितृपक्षे ब्राह्मणयुग्मत्वो- पदेशः । दैवे युग्मत्वस्य पार्व्वणत्वेन प्राप्तत्वान्न तदर्थोपदेशः “अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणम्” इति याज्ञ- वल्क्यवचनेन देवकर्म्मानन्तरं पितृकर्म्मकरणे प्राप्तवामो- पचारनिरासाय प्रदक्षिणमुपचारस्तेन दैवपितृकर्म्मकर- णाय दक्षिणावर्त्तेन गन्तव्यम् । द्विगुणभुग्नत्वनिरासाय ऋजवोदर्भा इति ऋजुत्वोपदेशः । तृप्ताः स्थ इत्यनेन तृप्तिप्रश्ने सम्पन्नमिति प्रष्टव्यं योग्यत्वात् सम्पन्नमिति प्राप्ते वक्ष्यमाणच्छन्दोगपरिशिष्टवचनाच्च सुसम्प्रन्नमित्यु- [] त्तरम् । एतद्दर्भमयब्राह्मपक्षेऽप्यबावितत्वाद्वाच्यम् । दधि- बदराक्षतमिश्राइत्यनेन दध्यादिमिश्रणमावश्यकम् । अक्षतो- यवः “अक्षताश्च यवाः प्रोक्ता भृष्टा धाना भवन्ति ते” इति भट्टनारायणधृतकोषात् अतएव वक्ष्यमाणच्छन्दोगपरिशिष्ट- वचनेऽक्षतमनुक्त्वा “संयोज्य यवकर्कन्धूदधिभिरिति” निः- सन्दिग्धमुक्तम् । स्वधावाचनप्रश्ननिवृत्तये नान्दीमुखाः पितरः प्रीयन्तामित्युपदेशः । तत्र स्वधां वाचयिष्य इति पितृपक्षएवप्रश्नः । अतएवतन्निवृत्तये दैव इति । देवपक्षे नान्दीमुखाः पितरः प्रीयन्तामिति प्रश्नः । उत्तरञ्च प्रीयन्तामिति । ततः पितृपक्षे स्वधावाचनस्थानीयत्वेन वृद्धप्रमातामहे यश्चेति चकारनिर्द्देशेन च स्वधोच्यतामि- तिवत् प्रत्येकमेव प्रीयन्तामिति पृच्छेत् । प्रत्युत्तरञ्च अस्तु स्वधेति वत् तन्तेणैव प्रीयन्तामिति । अत्र नान्दी- मुखाः पितरैत्यादि नान्दीमुखेभ्यः पितृभ्यः इति नि- र्देशेन च “नान्दीमुखं पितृगणमिति” विष्णुपुराणेन च “मातामहेभ्यश्च तथा नान्दीमुखेभ्य एव चेति” ब्रह्मपुराणे च नान्दीमुखपदश्रुतेस्तद्विशेषणविशिष्टस्यैवाभ्युदयिके देव- त्वात्वं ततश्चात्रापि प्रीयन्तामितिवन्नान्दीमुखेभ्यः प्रपिता- महेभ्य इत्यादि वाच्यम्” श्रा० त० रघु० । छन्दोग० “कर्मा- दिषु तु सर्वेषु मातरः सगणाधिपाः । पूजनीयाः प्रयत्नेन पूजिताः पूजयन्ति ताः । प्रतिमासु च शुभ्रासु लिखिता वा पटादिषु । अपि वाक्षतपुञ्जेषु नैवेद्यैश्च पृथग्विधैः । कुड्यलग्नां वसोर्धारां सप्त वारान् घृतेन तु । कारयत् पञ्च वारान् वा नातिनीचां नचोच्छ्रितम । आयुष्मा- निति शान्त्यर्थं जत्वा तत्र समाहितः । षड्भ्यः पितृ- भ्यस्तदनु श्राद्धदानमुपक्रमेत् । वशिष्ठोक्तकिधिः कृत्स
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
आभ्युदयिकं, त्रि, (अभ्युदयः प्रयोजनम् अस्य । अभ्यु- दय् + ठक् ।) अभ्युदयनिमित्तश्राद्धादि । यथा । अथाभ्युदयिकश्राद्धं । तत्र गोभिलः । आभ्युदयिके श्राद्धे युग्मानाशयेत् प्रदक्षिणमुपचारः ऋजवो दर्भाः यवैस्तिलार्थः । सम्पन्नमिति तृप्तिप्रश्नः । दधिवदराक्षतमिश्राः पिण्डाः नान्दीमुखाः पितरः प्रीयन्तामिति दैवे वाचयित्वा नान्दीमुखेभ्यः पि- तृभ्यः पितामहेभ्यः प्रपितामहेभ्यो मातामहेभ्यः प्रमातामहेभ्यो वृद्धप्रमातामहेभ्यश्च प्रीयन्तां न स्वधाञ्च प्रयुञ्जीत इति । अभ्युदयो विवाहादिस्त- दर्थं श्राद्धं आभ्युदयिकं । आभ्युदयिके अभ्युदय- निमित्तके । अभ्युदयः इष्टलाभः । स च भूत- भविष्यद्भेदेन द्विबिधः । तत्र भूतं पुत्त्रजन्मादि भविष्यत् विवाहादि । एवञ्च श्राद्धविवेकादौ श्राद्धभेदगणने वृद्धिश्राद्धत्वेन कर्म्माङ्गत्वेन च यदुभयत्वमुक्तं तदुभयमेवात्राभ्युदयिकत्वेनोपपन्नं तेनाभिलापे आभ्युदयिकश्राद्धमिति प्रयोज्यं । अत्र यवैस्तिलार्थ इत्यनेन पार्ब्बणश्राद्धप्राप्ततिलस्थाने यवविधानात् आभ्युदयिकस्यापि पार्ब्बणप्रकृतित्वं प्रतीयते । अन्यथा तिलार्थ इत्युपादानं व्यर्थं स्यात् । ततश्च पार्ब्बणप्रकृतिकत्वेन पित्र अयुग्म- ब्राह्मणप्राप्तौ तन्निराशाय पितृपक्षे ब्राह्मणयुग्म- त्वोपदेशः दैवे युग्मत्वस्य पार्ब्बणप्राप्तत्वान्नतदर्थो- पदेशः । “अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणं” । इति याज्ञवल्क्यवचनेन देवकर्म्मानन्तरं पितृ- कर्म्मकरणे प्राप्तवामोपचारनिराशाय प्रदक्षिण- मुपचारः तेन देवपितृकर्म्मकरणाय दक्षिणावर्त्तेन गन्तव्यं । द्विगुणभुग्नत्वनिराशाय ऋजवो दर्भा इति ऋजुत्वोपदेशः । तृप्ताः स्थ इत्यनेन तृप्तिप्रश्ने सम्पन्नमिति प्रष्टव्यं । योग्यत्वात् सुसम्पन्नमिति प्रोक्ते इति वक्ष्यमाणछन्दोगपरिशिष्टवचनाच्च सु- सम्पन्नमित्युत्तरं । एतद्दर्भमयब्राह्मणपक्षेप्यबाधि- तत्वाद्वाच्यं । दधिवदराक्षतमिश्रा इत्यनेन दध्या- दिमिश्रणमावश्यकं । अक्षतो यवः । “अक्षताश्च यवाः प्रोक्ता भृष्टा धाना भवन्ति ते” । इति भट्टनारायणधृतात् । अतएव वक्ष्यमाणछन्दो- गपरिशिष्टवचने अक्षतमनुक्त्वा संयोज्य यवकर्क्क- न्धुदधिभिरिति निःसन्दिग्धमुक्तं । स्वधावाचनप्रश्न- निवृत्तये नान्दीमुखाः पितरः प्रीयन्तामित्युप- देशः । तत्र स्वधां वाचयिष्ये इति पितृपक्षएव प्रत्रः अतएव तन्निष्टत्तये दैव इति आदौ देवपक्षे नान्दीमुखाः पितरः प्रीयन्तामिति प्रश्नः । उत्तरञ्च प्रीयन्तामिति । ततः पितृपक्षे स्वधावाचनस्थानी- यत्वेन वृद्धप्रमातामहेभ्यश्च इति चकारनिर्देशेन [] च स्वधोच्यतामितिवत् प्रत्येकमेव प्रीयन्तामिति पृच्छेत् प्रत्युत्तरञ्च अस्तु स्वधा इतिवत् तन्त्रेणैव प्रीयन्तामिति । अत्र नान्दीमुखाः पितर इत्यादि नान्दीमुखेभ्यः पितृभ्य इति निर्देशेन च नान्दी- मुखं पितृगणमिति विष्णुपुराणेन च मातामहे- भ्यश्च तथा नान्दीमुखेभ्य एव च इति व्रह्मपुराणेन च नान्दीमुखपदश्रुतेस्तद्विशेषणविशिष्टस्यैवाभ्यु- दयिके देवतात्वं ततश्चात्रापि प्रीयन्तामितिवन्ना- न्दीमुखेभ्यः पितामहेभ्य इति वाच्यं । न तु नान्दी- मुखविशेषणशून्यं पितामहेभ्यः प्रीयन्तामिति पितृदयितोक्तं युक्तम् । नान्दीमुखेभ्यः पितृभ्य प्रीयन्तामित्यत्रान्वितस्य नान्दीमुखेभ्य इत्यस्य पितामहेभ्य इत्यादावनन्वयित्वेन प्रागुक्तयुक्त्या प्राप्तस्य नान्दीमुखविशेषणस्य पितामहेभ्य इत्या- दावपि प्राप्तेः । एतेनात्र मैथिलोक्तं तन्त्रता- विधानमपि निरस्तं । पार्ब्बणवत् स्वधाः प्राप्तेः तन्निराशाय न स्वधां प्रयुञ्जीतेति अत्र विशेषादभिलापे मन्त्रे च स्वधापदनिवृ
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬