आरग्बध पु० आ + रगे--शङ्कयां क्विप् आरगं रोगशङ्कामपि हन्ति अच् बधादेशश्च । (सोंदाल) इति ख्याते वृक्षे । “आरग्बधो गुरुः स्वादुः शीतलः स्रंसनोत्तमः । ज्वर- हृद्रोगपित्ताम्लवातोदावर्त्तशूलनुत् । तत्फलं स्रंसनं रुच्यं कुष्ठपित्तकफापहम् । ज्वरे तु सततं पथ्यं कोष्ठ- शुद्धिकरं परम्” इति भावप्रकाशे तद्गुणा उक्ताः । आरग्वधाद्यतैलं श्वित्रहरं यथा । “आरग्बधं धवं कुष्ठं हरितालं मनःशिला । रजनीद्वयसंयुक्तं पचेत् तैलं विधानवत् । एतेनाभ्यञ्जयेच्छित्री क्षिप्रं श्वित्रं विनश्यति” चक्रद० । आरग्वधतैलं रोमहम् । “आरग्बधमूलं कर्षद्वितयं शङ्खचूर्णस्य । हरितालस्य च खरजे मूत्रप्रस्थे कटुतैलं पक्वम् । तैलं तदिदं शङ्खहरितालचूर्णितं लेपात् । निर्मूल- यति च रोमाण्यन्येषां सम्भवो नैव” चक्रद० आरग्वधादिपाचनम् तत्रैव यथा “आरम्बध- ग्रन्थिकमुस्ततिक्ता हरीतकीभिः क्वथितः कषायः । सामे सशूले कफवातयुक्ते ज्वरे हितो दीपनपाचनश्च” ।
📄 मूल मुद्रित पृष्ठ (0794,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।