आरभटी स्त्री० आरभ्यतेऽनया आ + रभ--अटि ङीप् । नाट्ये अर्थविशेषयुक्ते सा० दर्पणोक्ते रचनाभेदे सा च भेदो- दाहरणसहिता सा० द० उक्ता यथा “मायेन्द्रजालसंग्रामक्रोधोद्भान्तादिचेष्टितैः । संयुक्ता पण- बन्धाद्यैरुद्भटाऽऽरभटी मता । वस्तूत्थापनसऽफेटौ संक्षिप्ति रवपातनम् । इति भेदास्तु चत्वार आरभट्याः प्रकी- र्त्तिताः । मायाद्युत्थापितं वस्तु वस्तूत्थापनमुच्यते । यथो- दात्तराघवे । “जीयन्ते जयिनोनिशान्ततिमिरव्रातैर्व्वि- यद्व्यापिभिर्भास्वन्तः सकला रवेरपि कराः कस्मादकस्मा- दमी । एते चोग्रकबन्धकण्ठरुधिरैराध्मायमानोदरामुञ्च- न्त्याननकन्दरानलमुचस्तीव्रान् रवान् फेरवः” इत्यादि । संफेटस्तु समाधाय युद्धसत्वरयोर्द्वयोः । यथा मालस्त्यां माधवाघोरघण्टयोः । संक्षिप्ता वस्तुरचना शिल्पैरित- रथाऽपि वा । संक्षिप्तिः स्यात् निवृत्तौ च नेतुर्नेत्रन्तर- ग्रहः । उदयनचरिते किलिञ्जहस्तिप्रयोगः । द्वितीयं यथा । बालिनिवृत्त्या सुग्रीवः यथा वा परशुरामयौ द्धत्थ- निवृत्त्या शान्तत्वापादानं “पुण्या ब्राह्मणजातिरन्वयगुणः शास्त्रं चरित्रं च मे येनैकेन हृतान्यमूनि हरता चैतन्य सात्रामपि । एकः सन्नपि भूरिदोषगहनं सोऽयं त्वया [] प्रेयसा वत्स! ब्राह्मणवत्सलेन शमितः क्षेमाय दर्पोमम” । प्रवेशश्रासनिष्क्रान्तिहर्षविप्लवसम्भवम् । अवपातनमित्युक्तम् । यथा कृत्यरावणे षष्ठेऽङ्के । प्रविश्य खङ्गहस्तः पुरुष इत्यतः प्रभृति निष्क्रमणपर्य्यन्तम् । सर० क० उक्ते शब्दालङ्का- ररूपे २ वृत्तिभेदे च सा च ३८८ पृष्ठे दृश्या । आरः सामर्थ्येन गामी भटः । ३ शूरे वीरे पु० हेमचन्द्रः ।
📄 मूल मुद्रित पृष्ठ (0797-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।