आरोहिन् त्रि० आ + रुह--णिनि । १ आरोहणकर्त्तरि नीचा- दूर्द्धस्थानगामिनि स्त्रियां ङीप् । सा च ग्रहाणां १ नक्षत्र दशाभेदे । सा च अवरोहिशब्दे ४४३ पृष्ठे लक्षितलक्षणा । ग्रहविशेषाणामारोहिण्याः दशायाः फलमुक्तं सर्व्वा० चि० यथा । सूर्य्यस्य “आरोहिणी वासरनायकस्य दशा महत्त्वं कुरुते च सौख्यम् । परोपकारं सुतदारभूमिं गोवाजिमातङ्गकृषि- क्रियादीन्” । चन्द्रस्य “आरोहिणी चन्द्रदशा प्रपन्ना स्त्रीपुत्रवित्ताम्बरसौख्य- कान्तिम् । करोति राज्यं सुखभोजनञ्च देवार्चमं भूसुर तर्पणञ्च” । कुजस्य “आरोहिणी भूमिमुतस्य सौख्यं दशा तनोत्यत्र नरेशपूजाम् प्रधानतां धैर्य्यमनोभिलाषं भाग्योत्तरं गोगजवाजिसंघम्” बुधस्य “आरोहिणी सौम्यदशा प्रपन्ना यज्ञोत्सवं गोवृषवाजि संघम् । मृद्वन्नभूषाम्बरपानलाभं बाणिज्यभूम्यर्थपरोपकारम्” गुरोः “आरोहिणी देवगुरोर्महत्त्वं दशा प्रपन्ना कुरुतेऽर्थभूमिम् गानक्रिंयास्त्रीसुतराजपूजां स्ववीर्य्यतः प्राप्तयशःप्रतापम्” । शुक्रस्य “आरोहिणी शुक्रदशा प्रपन्ना धामाम्बरालङ्कृतिकान्ति- पूजाम् । प्रवृत्तिसिद्धिं स्वजनैर्विरोधं मातुर्दिनाशं पर- दारसङ्गम्” । कुरुते इत्यनुषङ्गः सर्व्वत्र । शनेः “आरोहिणी वासरनाथसूनीर्दशा विपाके नृपलब्धभाग्यम् । बाणिज्यलाभं कृषिभूमिलाभं गोवाजिलाभं सुतदारलाभम्” ।
📄 मूल मुद्रित पृष्ठ (0805,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।