🕉️ 30 November 2026, Monday · 12:12:36 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

आलयविज्ञान
ālayavijñāna
🟠 शब्दसागर🟢 वाचस्पत्यम्
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
आलयविज्ञान संज्ञा पुं॰ [सं॰] अहंकार का आधार (बौद्ध) ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
आलयविज्ञान न० आलयं लयपर्य्यन्तस्थायि विज्ञानम् । बौद्धमतसिद्धे अहमास्पदे विज्ञानभेदे । “तत् स्यादालयविज्ञानं यद्भवेदहमास्पदम् । तत् स्यात् प्रवृत्तिविज्ञानं यन्नीलादिक मुल्लिखेत्” तेषां मते हि विज्ञानातिरिक्तो बाह्यपदार्थो नास्ति, ज्ञानस्यैवाकारविशेषः अर्घोल्लेखी । आलयविज्ञानस्य सदातनत्वेऽपि कदाचित् नीलाद्युल्लेखिता तथा हि विवादा- ध्यासिताः प्रवृत्तिप्रत्ययाः सत्यप्यालयविज्ञाने कदाचिदेव नीलाद्युल्लखनाः काचित्कत्वात् इति विज्ञानस्य कादाचित्कत्व सिद्धिः “तस्मादालयविज्ञानसन्तानातिरिक्तः कादाचित्कः प्रवृत्तिविज्ञानहेतुर्बाह्योऽर्थो ग्राह्य एव न, वासनापरिपाक- प्रत्ययस्य कादाचित्कत्वात् कदाचिदुत्पाद इति वेदितव्यम् । विज्ञानवादिनये हि वासनानामेकसन्तानवर्त्तिनामालय- विज्ञानानां तत्तत्प्रवृत्तिजननशक्तिः तस्याश्च स्वकार्य्योत्- पादं प्रत्याभिमुख्यं परिपाकः तस्य च प्रत्ययः कारणं स्वसन्तानवर्त्तिपूर्व्वक्षणः कक्षीक्रियते सन्तानान्तरनिबन्ध त्वानङ्गीकारात् । ततश्च प्रवृत्तिज्ञानजननालयविज्ञान- वर्त्तिवासनापरिपाकं प्रति सर्व्वेऽप्यालयविज्ञानवर्त्तिनः [] क्षणाः समर्था एवेति वक्तव्यम् । न चेदेवं कोऽपि न समर्थः स्यादालयविज्ञानसन्तानवर्त्तित्वाविशेषात् । सर्व्वे समर्था इति पक्षे कार्य्यक्षेपानुपपत्तिः ततश्च कादाचित्- कत्वनिर्व्वाहाय शब्दस्पर्शरूपरसगन्धविषयाः सुखादि- विषयाः षडपि प्रत्ययाश्चतुरः प्रत्ययान् प्रतीत्योत्पद्यन्ते इति चतुरेणानिच्छताप्यच्छमतिना स्वानुभवमनाच्छाद्य परिच्छेत्तव्यम् । ते चत्वारः प्रत्ययाः प्रसिद्धाः आलम्बन- समनन्तरसहकार्य्यधिपतिरूपाः । तत्र ज्ञानपदवेदनीयस्य नीलाद्यवभासस्य चित्तस्य नीलालम्बनप्रत्ययात् नीला- कारता भवति, समनन्तरप्रत्ययात् प्राचीनज्ञानाद्बोधरूपता, सहकारिप्रत्ययादालोकात्, चक्षुषोऽधिपतिप्रत्ययाद्विषय- ग्रहणप्रतिनियमः । विदितस्य ज्ञानस्य रसादिसाधारण्य- प्राप्तेर्नियामकं चक्षुरधिपतिर्भवितुमर्हति लोके नियामक- स्याधिपत्वोपलम्भात् । एवं चित्तचैत्तात्मकानां सुखा- दीनां चत्वारि कारणानि द्रष्टव्यानि । एवं चित्तचैत्तात्म- कस्कन्धः पञ्चविधः रूपविज्ञानवेदनासंज्ञासंस्कारसं- ज्ञकः । तत्र रूप्यन्त एभिर्विषया इति रूप्यन्त इति च व्युत्पत्त्या सविषयाणीन्द्रियाणि रूपस्कन्धः । आलय- विज्ञानप्रवृत्तिविज्ञानप्रवाहो विज्ञानस्कन्धः । प्रागुक्त- स्कन्धद्वयसम्बन्धजन्यः सुखदुःखादिप्रत्ययप्रवाहो वेदना- स्कन्धः । गौरित्यादिशब्दोल्लेखिविज्ञानप्रवाहः संज्ञास्कन्धः वेदनास्कन्धनिवन्धना रागद्वेषादयः क्लेशा उपक्लेशाश्च मदमानादयो धर्म्माधर्म्मौ च संस्कारस्कन्धः” सर्वद० विज्ञानानां क्षणिकत्वेऽपि पूर्व्वपूर्व्वक्षणिकविज्ञानसंस्कारा- णामुत्तरोत्तरविज्ञाने संक्रमः तत्संक्रमाच्च स्मरणं, सुषुप्तौ च आलयविज्ञानस्य सत्त्वात् तत्रैव सर्व्वसंस्काराणामव- स्थितेः सुप्तोत्थितस्य स्मरणसम्भव इत्यतो बौद्धैः आलय- पर्य्यन्तं क्षणिकविज्ञानव्यक्तिधाराणां स्थायित्वमङ्गीक्रियते ।
📄 मूल मुद्रित पृष्ठ (0823-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬