आविर्भाव पु० आविस् + मू--षञ् । १ प्रकाशे सांख्यमतसिद्धे उत्पत्तिस्थानीयेऽभिव्यक्तिस्वरूपे २ भावधर्मभेदे तथा हि नैयायिकादयः क्रियानिरोधबुद्धिव्यपदेशार्थक्रियाव्यवस्था- भेदात् कार्य्यस्य कारणात् भिन्नतया कारणादुत्पत्तिरित्य- ङ्गीचक्रुः तदेन्मतमनूद्य सां० त० कौ० दूषयित्वा सतामेव कार्य्याणामाविर्भावः इति स्थिरोकरणेन कार्य्यकारणयो- रभिन्नत्वं समर्थितम् यथा स्वात्मनि क्रियानिरोधबुद्धि- व्यपदेशार्थक्रियाव्यवस्थाभेदाश्च नैकान्तिकं भेदं साधयितु मर्हन्ति एकस्मिन्नपि तत्तद्विशेषाविर्भावतिरोभावाभ्यामेतेषा मविरोधात् यथा हि कूर्मस्याङ्गानि कूर्मशरीरे निविशमानानि- तिरोभवन्ति निःसरन्ति चाविर्भवन्ति न तु कूर्मतस्तदङ्गा न्युत्पद्यन्ते प्रध्वंसन्ते वा एवमेकस्या मृदः सुवर्णस्य वा- षटमुकुटादयोविशेषा निःसरन्त आविर्भवन्त उत्पद्यन्त इत्युच्यन्ते न पुनरसतामुत्पादः सतां वा निरोधः । यथाह भगवान् कृष्टद्वैपायनः “नासतोविद्यते भावो नाभावो विद्यते सत इति” । यथा कूर्मः स्वावयवेभ्यः सङ्कोचिविकाशिभ्योन भिन्नः एवं घटमुकुटादयोऽपि मृत्सुवर्णादिभ्योन भिन्नाः । एवञ्चेत् तन्तुषु पटैति व्यपदेशो यथेह वने तिलका इत्यु पपन्नः । न चार्थक्रियाभेदोऽपि भेदमापादयति एकस्यापि नानार्थक्रियादर्शनात् यथैक एव वह्निर्दाहकः प्रका- शकः पाचकश्चेति । नाप्यर्थक्रियाव्यवस्था वस्तुभेदे हेतुः तेषामेव समस्तव्यस्तानामर्थक्रियाव्यवस्थादर्शनात् यथा प्रत्येकं विष्टयो वर्त्मदर्शनलक्षणामर्थक्रियां कुर्व्वन्ति न तु शिविकावहनं, मिलितास्तु शिविकां वहन्ति एवं तन्तवः प्रत्येकं प्रावरणमकुर्व्वाणा अपि मिलिताः आवि- र्भूतपटभावाः प्रावरिष्यन्ति । स्यादेतत् । आविर्भावः पटस्य कारणव्यापारात् प्राक् सन्नसन् वा असंश्चेत् प्राप्तं तर्ह्यसत उत्पादनम् । अथ सन्, कृतं तर्हिकारणव्यापारेण, न हि सति कार्य्येकारणव्यापारप्रयोजनं पश्यामः । आवि- र्भावे चाविर्भावान्तरकल्पनेऽनवस्थाप्रसङ्गः । तस्मादाविर्भू- तपटभावास्तन्तवः क्रियन्त इति रिक्तं वचः । अथासदुत्पद्यत इत्यत्रापि मते केयमसदुत्पत्तिः सती असती वा, सती चेत् कृतं तर्हि कारणैः, असती चेत्तस्या अप्युत्पत्त्यन्तरमित्यनवस्था । अथोत्पत्तिः पटान्नार्थान्तरम् अपि तु पटएवासौ तथापि यावदुक्तं भवति पटैति तावदुक्तं भवत्युत्पद्यतैति । ततश्च पटैत्य क्ते उत्पद्यतैति न वाच्यं पौनरुक्त्यात् विनश्यतीत्य- [] पि न वाच्यं उत्पत्तिविनाशयोर्युगपदेकत्र विरोधात् तस्मादियं पटोत्प्रत्तिः स्वकारणसमवायो वा स्वसत्तासम- वायोवा उभयथापि नोत्पद्यते अथ च तदर्थानि कारणानि व्यापार्यन्ते एवं पटादेराबिर्भावेऽपि कारणापेक्षेत्युपपन्नम् । न च पटरूपेण कारणानां सम्बन्धः, तद्रूपस्याक्रिय- त्वात् क्रियासम्बन्धित्वाच्च कारकाणाम् अन्यथा कारणत्वा- भावात् । तस्मात् सत्कार्य्यमिति पुष्कलम्” सा० कौ० । प्रपञ्चस्तु अभिव्यक्तिशब्दे ३०० पृष्ठादौ दृश्यः । बाह्य- मेयविमुखतापादकः कश्चनान्तरो धर्मः सत्त्वं तस्योद्रेकः रजस्तमसी अभिभूयाधिर्भावः” सा० द० । देवादीनां मनुष्याद्याकारग्रहणरूपे ३ अवतारे च । “तदा मे मनसा- ध्यातो दयासिन्धुर्जनार्द्दनः । भक्तानामनुकम्पार्थं यश्चा- विर्भावमिच्छति जैमि० भा० ।
📄 मूल मुद्रित पृष्ठ (0830-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।