आशापाल पु० आशां दिशं पालयति पा--णिच्--अण् उप० स० । १ दिक्पाले इन्द्रादौ ते च “इन्द्रोवह्निः पितृपतिर्नैरृतोवरुणोमरुत् । कुवेरईशः पतयः पूर्व्वादीनां दिशां क्रमात्” इत्यमरोक्ता अष्टौ उर्द्धा- धोदिशोश्च ब्रह्मानन्तौ चेति दश । २ अश्वमेधीयपशुरक्षके राजकुमारभेदे च । तेषां स्वरूपादिकमुक्तं शत० ब्रा० । “आदित्यानेवैनं गमयति देवा आशापाला एतं देवेभ्यो- ऽश्वं मेधाय प्रोक्षितं रक्षतेति शतं वै तल्प्या राजपुत्रा आशापालास्तेभ्य एवैनं परिददातीह रन्तिरिह रमता- मिह धृतिरिह स्वधृतिः स्वाहेति संवत्सरमाहुतीर्जुहोति [] षोडश नवतीरेता वा अश्वस्य बन्धनं ताभिरेवैनं बध्नाति तस्मादश्वः प्रमुक्तोबन्धनमागच्छति षोडश नवतीरेता वा- अश्वस्य बन्धनं ताभिरेवैनं बध्नाति तस्मादश्वः प्रमुक्तोबन्धनं जहाति । राष्ट्रं वा अश्वमेधः राष्ट्रएते व्यायच्छन्ते येऽश्वं रक्षन्ति तेषां य उदृचं गच्छन्ति राष्ट्रेणैव ते राष्ट्रं यन्ति अथ ये नोदृचं गच्छन्ति राष्ट्रात्ते व्यवच्छिद्यन्ते तस्मा- द्राष्ट्रियोऽश्वमेधेन यजेत परा वा एष सिच्यते योऽबलोऽश्व- मेधेन यजते यद्यमित्रो अश्वं विन्देत यज्ञोऽस्य विच्छिद्येत पापीयान् तस्माच्छतं कवचिनो रक्षन्ति यज्ञस्य संतत्या अ- व्यवच्छेदाय न पापीयान् भवत्यथान्यमानीय प्रोक्षेयुः, सैव तत्र प्रायश्चित्तिः” शत० ब्रा० । अधिकमश्वमेधशब्दे दृश्यम्-
📄 मूल मुद्रित पृष्ठ (0836-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।