आश्रमधर्म्म पु० आश्रमविहितोधर्म्मः । ब्रह्मचर्य्यादि- विहिते धर्म्मे धर्म्मो हि षड्विधः वर्ण्णधर्म आश्रमधर्मो वर्ण्णाश्रमधर्मो गुणधर्मो निमित्तधर्मोसाधारणधर्मश्चेति । तत्र वर्ण्णधर्मो ब्राह्मणो नित्यं मद्यं वर्ज्जयेदित्यादिः । आश्रमधर्म्मोऽग्नीन्धनभैक्ष्यब्रह्मचर्य्यादिः वर्ण्णाश्रमधर्मो ब्रा- ह्मण्यादि क्रमेण पालाशादिदण्डधारणादि” नैमित्तिकधर्म्मो- विहिताकरणनिषिद्धसेवननिमित्तं प्रायश्चित्तम्, साधारण- धर्मोऽहिंसादि मांहिंस्यात् सर्व्वाभूतानीत्याचाण्डालं साधारणधर्मः श्रत्युक्तः इति” मिता० । अन्यत्र चान्ये आश्रमधर्माः दर्शिताः । “ब्रह्मचारिणः स्वाध्यायः, गृह- स्थस्य दानं दमो यज्ञश्च, वानप्रस्थस्य तपः, भिक्षुकस्य “अभयं सत्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः” इत्यादिकः तथा च “यस्त्वाश्रमं समाश्रित्य अधिकारः प्रवर्त्तते । स खल्वा- श्रमधर्मस्तु भिक्षादण्डादिकं यथा । यतीनां तु शमो- धर्मोनियमोवनवासिनाम् । दानमेव गृहस्थानां शुश्रूषा ब्रह्मचारिणामिति” श्रुत्या स्मृत्या च येये धर्मा यत्र यत्राश्रमे विहितास्तेते आश्रमधर्म्मशब्देनोच्यन्ते ते च धर्म्मास्तत्तच्छब्दे प्रपञ्चेन वक्ष्यन्ते ।
📄 मूल मुद्रित पृष्ठ (0844,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।