इन्दुमण्डल त्रि० ६ त० । चन्द्रस्य विम्बे मण्डलाकारे पदार्थे “हुत्वा स्तुत्वा नमस्कृत्य विसृजेदिन्दमण्डले” तन्त्रसा० । तन्मण्डलमानञ्च सि० शि० दर्शितं यथा । “विम्बं रवेर्द्विद्विशरर्तु (६५२२) संख्यानीन्दोः खनागा म्बुधि (४८०) योजनानि । भूव्यासहीनं रविबिम्बमि- न्दुकर्णाहतं भास्करकर्णभक्तम् । भूविस्तृतिर्लब्धफलेन हीना भवेत् कुभाविस्तृतिरिन्दुमार्गे” “रवेर्योजनात्मकविम्बं मध्यमं द्वियमबाणषट्कतुल्यानि (६५२२) योजनानि इन्दोस्तु शून्यवसुवेद (४८०) मितानि । अथ राहोरुच्यते । रवि- बिम्बं भूव्यासेन (१५८१) हीनं (१५१) कृत्वेन्दुकर्णेन स्फु- टेन योजनात्मकेन संगुण्य रविकर्णेन स्फुटेन भजेत् फलेन भूव्यासतो वर्ज्जितश्चन्द्रकक्षायं भूभाव्यासो भवति । [] फलानि योजनविम्बानि । अत्रोपपत्तिः यस्मिन् दिने अर्कस्य मध्यतुल्यैव स्फुटा गतिः स्यात् तस्मिन् दिने उदयकाले चक्रकलाव्यासार्धमितेन यष्टिद्वितयेन भूल- मिलितेन तत्रस्थदृष्ट्या तदग्राभ्यां बिम्बप्रान्तौ विध्येत् । या यष्ठ्यग्रयोरन्तकलास्ता रविबिम्बकला भवन्ति मध्यमाः । ताश्च द्वात्रिंशत् किञ्चिदधिकैकत्रिंशद्विकलाधिकाः ३२ ३१ । ३३ । एवं विधोरपि पौर्णमास्यां यदा मध्यैव गतिः स्पष्टा तदा विध्येत् तस्यैवं द्वात्रिंशत् कलाः ३२ । ० । ९ । उत्पद्यन्ते । बिम्बकलानां योजनीकरणा- यानुपातः । यदि त्रिज्याव्यासार्ध एतावत्प्रमाणं विम्बं तदा पठितश्रुतियोजनैः किमित्येवमुत्पद्यन्ते द्विद्विश- रर्तु (६५२२) संख्यानि योजनानि । विधोस्तु खनागा म्बुधि (४८०) मितानीति” । प्रमि० । बिम्बमेव गोलस्य व्यासशब्देनाभिधीयते “व्यासारवीन्दक्षितिगोलकानां क्रमेण तेजोजलमृण्मयानाम् । स्युर्योजनन्याकृतिवाणषड्भि (६५ २२) र्व्योमाष्टवेदैः (४८०) कुगजेषुचन्द्रैः । (१५८१) इति श्रीपतिना विम्बस्थाने व्यासश्ब्दप्रयोगात् । तस्यैव विष्- कम्भ इति संज्ञा । “विष्कम्भमानं किल यत्र सप्त” इति लीला० व्यासस्थाने विष्कम्भशब्द प्रयोगात् अतएवार्य्यभट्टेन ग्रासनिरूपणे । “शशिबिष्कम्भविवर्जितमित्युक्तम् । “व्यासे भनन्दाग्नि (१९२७) हते विभक्ते खबाणसूर्य्यैः (१२५० परिधिः स सूक्ष्मः” इति लीला० उक्तदिशा रविचन्द्र- योरुक्तव्यासमानेन परिधिरानेयः । स च रवेः किञ्चिदून (२०४९९) योजनमितः, चन्द्रस्य किञ्चिन्न्यून (१५०८) योजनमितः । तथा च मण्डलशब्दस्य व्यासपरत्वे (४८०) योजनानि परिधिपरत्वे किञ्चिन्न्यून (१५०८) योजनानि इन्दोर्मण्डलस्य मानमित्यवधेयम् ।
📄 मूल मुद्रित पृष्ठ (0936-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।