इन्द्रजित्, पुं, (इन्द्रंजितवान् इति । इन्द्र + जि + क्विप् ।) रावणपुत्रः । तत्पर्य्यायः । मेघनादः २ मन्दोदरीसुतः ३ । इति जटाधरः ॥ (अस्य जन्मविवरणं यथा, रामायणे ७ । १२ । सर्गे, “एवमुक्तस्तदा राम ! राक्षसेन्द्रेण दानवः । महषेर्स्तनयं ज्ञात्वा मयो दानवपुङ्गवः ॥ [] दातुं दुहितरं तस्मै रोचयामास तत्र वै ॥ १६ ॥ करेण तु करं तस्या ग्राहयित्वा मयस्तदा । प्रहसन् प्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः ॥ १७ ॥ इयं ममात्मजा राजन् हेमयाप्सरसा धृता । कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम् ॥ १८ ॥ वाढमित्येव तं राम ! दशग्रीवोऽभ्यभाषत । प्रज्वाल्य तत्र चैवाग्निमकरोत् पाणिसङ्ग्रहम्” ॥ १९ ॥ “ततो मन्दोदरी पुत्रं मेघनादमजीजनत् । स एष इन्द्रजिन्नाम युष्माभिरभिधीयते ॥ २८ ॥ जातमात्रेण हि पुरा तेन रावणसूनुना । रुदता सुमहान् मुक्तो नादो जलधरोपमः ॥ २९ ॥ जडीकृता च सा लङ्का तस्य नादेन राघव ! । पिता तस्याकरोत् नाममेघनाद इति स्वयम्” ॥ ३० ॥ अस्य यथा इन्द्रजिदित्यभिधानं जातं तदपि उक्तं तत्रैव ३५ सर्गे । “जिते महेन्द्रेऽतिबले रावणस्य सुतेन वै । प्रजापतिं पुरस्कृत्य ययुर्लङ्कां सुरास्तदा ॥ १ ॥ तत्र रावणमासाद्य पुत्त्रभ्रातृभिरावृतम् । अब्रवीद् गगने तिष्ठन् सामपूर्व्वं प्रजापतिः ॥ २ ॥ वत्स रावण ! तुष्टोऽस्मि पुत्त्रस्य तव संयुगे । अहोऽस्य विक्रमौदार्य्यं तव तुल्योऽधिकोऽपि वा ॥ ३ ॥ जितं हि भवता सर्व्वं त्रैलोक्यं स्वेन तेजसा । कृता प्रतिज्ञा सफला प्रीतोऽस्मि ससुतस्य ते ॥ ४ ॥ अयञ्च पुत्त्रोऽतिबलस्तव रावण वीर्य्यवान् । जगतीन्द्रजिदित्येव परिख्यातो भविष्यति ॥ ५ ॥ बलवान् दुर्जयश्चैव भविष्यत्येव राक्षसः । यं समाश्रित्य ते राजन् स्थापितास्त्रिदशा वशे” ॥ ६ ॥ महावीरो लक्षणस्तु विभीषणेन वानरादिभिश्च- सह निकुम्भिलां गला तत्रस्थमेनमिन्द्रजितं व्यापादयामास इति तत्रैव लङ्काकाण्डे ५ सर्ग- मारभ्य ७ सर्गेषु उक्तम् ॥ स्वनामख्यातो दानवः । यथा हरिवंशे । ३ । ८३ । “इन्द्रजित् सत्यजिच्चैव वज्रनामस्तथैव च । महानाभश्च विक्रान्तः कालनाभस्तथैव च” ॥)
📄 मूल मुद्रित पृष्ठ (1-210-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।