इन्द्रमख पु० इन्द्रस्य तत्पूजार्थोमखः । वर्षादौ शक्रतोषार्थे यज्ञभेदे । स च मखःनन्दादिभिः प्रवर्त्तितः कृष्णेन निवर्त्तितश्च तत्र तत्करणे नन्देभ हेतुरुक्तः भा० १० स्क० २३ अ० “पर्जन्यो भगवानिन्द्रो मेघास्तस्यात्ममूर्त्तयः तेऽभिवर्षन्ति भूतानां प्रोणनं जीवनं पयः । तं तात! वयमन्ये च वार्मुचां पतिमीश्वरम् । द्रव्यैस्तद्रेतसा- सिद्धैर्यजन्ते क्रतुभिर्नराः तच्छेषेणोपजीवन्ति त्रिवर्गफल हेतवे । पुंसां पुरुषकाराणां पर्ज्जन्यः फलभावनः” इति नन्देनोक्ते कृष्णेन तन्मखनिवारणेन गोवर्द्धनमखस्य प्रवर्त्तनं कृतम् तदपितत्रैवोक्तं यथा “सत्वं रजस्तमैति स्थित्युत्पत्त्यन्तहेतवः । रजसोत्पद्यते विश्वमन्योन्यं विविधं जगत् । रजसा नोदितामेघा वर्षन्त्यम्बूनि सर्व्वतः प्रजास्तेरेव सिद्ध्यन्ति किं महेन्द्रः करिव्यति न नः [] पुरोजनपदा न ग्रामा न गृहा वयम् । वनौकसस्तात! नित्यं वनशैलनिवासिनः । तस्माद्गवां ब्राह्मणानामद्रेश्चार- भ्यतां मखः । यैन्द्रमखसम्भरास्तैरयं साध्यतां मखः” । भाग० १० स्क० २४ अ० । अधिकं गोवर्द्धनधरशब्दे वक्ष्यते । “मया तेऽकारि मघवन्! मखभङ्गोऽनुगृह्णता । मदनुस्मृतयोनित्यं मत्तस्येन्द्रश्रिया भृशमिति” २७ अ० ।
📄 मूल मुद्रित पृष्ठ (0950-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।