इन्द्रलोक पु० इन्द्रस्य लोकः भोगभूमिः । अमरावती- नामपुरीयुक्तेस्वर्गस्थानभेदे तत्स्थानममरावतीशब्दे ३२० पृष्ठे उक्तं तत्स्वरूपप्राप्तिकारणादिकमुक्तं काशी० । "लोके- ऽत्र रमते विप्र! सहस्राक्षः, पुरी त्वियम् । तपोबलेन महता विहिता विश्वकर्मणा । दिवापि कौमुदी यस्यां [] सौधश्रेणीश्रियम् श्रयेत् । यदा कलानिधिः क्वापि दर्शेऽ दृश्यत्वमावहेत् । तदा स्वश्रेयसीं ज्योत्स्नां सौधेष्वेषु- निगूहयेत् । यदच्छभित्तौ वीक्ष्य स्वमन्ययोषिद्विशङ्किता । मुग्धा नाशु विशेच्चित्रमपि स्वां चित्रशालिकाम् । हर्म्येषु नीलमणिभिनि र्मितेष्वत्र निर्भयम् । स्वनीलिमानमाधाय तमोऽहःस्वपि तिष्ठति । चन्द्रकान्तशिलाजालस्रुतमात्रा- मलं जलम् । तत्र चादाय कलसैर्नेच्छन्त्यन्यज्जलं जनाः । कुविन्दा न च सन्त्यत्र न चात्र पश्यतोहराः । चेलान्यलङ्कृ- तान्यत्र यतः कल्पद्रुमार्पणात् । गणका नात्र विद्यन्ते चिन्ताविद्याविशारदाः । यतश्छिनत्ति सर्वेषां चिन्तां चिन्ता- मणिर्द्रुतम् । सूपकारा न सन्त्यत्र रसपाकविचक्षणाः । दुग्धे सर्वरसानेका कामधेनुरतोऽनिशम् । कीर्त्तिरुच्चैःश्रवा- यस्य सर्वतो वाजिराजिषु । रत्नमुच्चैःश्रवाः सोऽत्र ह- यानां पौरुषाधिकः । ऐरावतो दन्तिवरश्चतुदेन्तोऽत्र राजते । द्वितीय इव कैलासोजङ्गमः स्फटिकोज्ज्वलः । तरुरत्नं पारिजातः स्त्रीरत्नं चोर्वशी त्विह । नन्दनं वन- रत्नं च रत्नं मन्दाकिनी ह्यपाम् । त्रयस्त्रिंशत् सुराणां या कोटिः श्रुतिसमीरिता । प्रतीक्षते सावसरं सेवायै प्रत्यहं त्विह । स्वर्गेष्विन्द्रपदादन्यन्न विशिष्येत किञ्चन । यद्यत्त्रि लोक्यामेश्वर्य्यं न च तुल्यमनेन हि । अश्वमेधसहस्रस्य लभ्यं विनिमयेन यत् । किन्तेन तुल्यमन्यत् स्यात् पवित्र- मथवा महत् । अर्च्चिस्मती संयमनी पुण्यवत्यनिलावती । गन्धवत्यलकैशी च नैतत्तुल्या महर्द्धिभिः । अयमेव सह- स्राक्षस्त्वयमेव दिवस्पतिः । शतमन्युरयं देवोनामान्ये- तानि नामतः । सप्तापि लोकपाला ये तएनं समुपासते । नारदाद्यैर्मुनिवरैरयमाशीर्भिरिज्यते । एतत्स्थैर्य्येण सर्वेषां लोकानां स्थैर्य्यमिष्यते । पराजयान्महेन्द्रस्य र्त्र- लोक्यं स्यात् पराजितम् । दनुजा मनुजादैत्यास्तपस्यन्त्यु ग्रसंयमाः । गन्धर्वयक्षरक्षांसि माहेन्द्रपदलिप्सवः । सगराद्यामहीपालावाजिमेधविधायकाः । कृतवन्तो महा- यत्नं शक्रैश्वर्य्यजिघृक्षवः । निष्प्रत्यूहं क्रतुशतं यः कश्चित् कुरुतेऽवनौ । जितेन्द्रियोऽमरावत्यां स प्राप्नोति पुलोमजाम् । असमाप्तक्रतुशता वसन्त्यत्र महीभुजः । ज्योतिष्टोमादिभिर्यागैर्ये यजन्त्यपि ते द्विजाः । तुलापुरु- षदानादि महादानानि षोडश । ये यच्छन्त्यमलात्मा- नस्तेलभन्तेऽमरावतीम् । अक्लीववादिनोवीराः संग्रामेष्व- पलायिनः । विश्रान्तावीरशयने तेऽत्र तिष्ठन्ति भूभुजः इत्यद्देशात् समाख्याता महेन्द्रनगरीस्थितिः । यायजू- [] कावसन्त्यत्र यज्ञविद्याविशारदाः” १० अ० । “अतिथि- स्त्विन्द्रलोकेशः” इति मनुना अतिथिपरिचर्य्याभिरपि तत्प्राप्तिरुक्ता । एवं राजसूययज्ञेनापि तत्प्राप्तिः भा० स० उक्ता । शक्रलोकादयोऽप्यत्र
📄 मूल मुद्रित पृष्ठ (0951-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।