इन्द्रायुध न० ६ त० । १ शक्रस्यास्त्रेवज्रे “सनादं मेघनादस्य धनुश्चेन्द्रायुधप्रभम्” रघुः । इन्द्रे तदधिष्ठितमेघे आयुध- मिव । सूर्य्यकिरणसंपर्कात् मेघे जायमाने २ धनुराकारे- पदार्थभेदे तल्लक्षणाद्युक्तं वृ० स० “सूर्य्यस्य विविधवर्ण्णाः पवनेन विघट्टिताः कराः साभ्रे । वियति धनुःसंस्थाना ये दृश्यन्ते तदिन्द्रधनुः । केचिदनन्तकुलोरगनिःश्वासो- द्भूतमाहुराचार्य्याः । तद्यायिनां नृपाणामभिमुखमज- यावहं भवति । अच्छिन्नमवनिगादं द्युतिमत् स्निग्धं घनं विविधवर्णम् । द्विरुदितमनुलोमं च प्रशस्तमम्भः प्रय- च्छति च । विदिगुद्भूतं दिक्स्वामिनाशनं व्यभ्रजं मर- ककारि । पाटलपीतकनीलैः शस्त्राग्निक्षुत्कृता दोषाः । जलभध्येऽनावृष्टिर्भुवि शस्यबधस्तरौ स्थिते व्याधिः । वल्- मीके शस्त्रभयं निशि सचिवबधाय धनुरैन्द्रम् । वृष्टिं क- रोत्यवृष्ट्यां वृष्टिं वृष्ट्यां निवारयत्यैन्द्र्याम् । पश्चात् सदैव वृष्टि कुलिशभृतश्चापमाचष्टे । चापं मघोनः कुरुते निशायाम् आखण्डलायां दिशि भूपपीडाम् । या म्यापरोदक्प्रभवं निहन्यात् सेनापतिं नायकमन्त्रिणौ च । निशि सुरचापं सितवर्णाभं जनयति पीडां द्विजपू- र्व्वाणाम् । भवति च यस्यां दिशि तद्देश्यं नरपतिमुख्यं न चिराद्धन्यात्” । “न दिवीन्द्रायुधं दृष्ट्वा कस्यचिद्- दर्शयेद्बुधः” मनुः “इन्द्रायुधद्योतिततोरणाङ्कम्” रघुः । ततः तालादि० विकारे अञ् । ऐन्द्रायुधस्तद्विकारे त्रि० ।
📄 मूल मुद्रित पृष्ठ (0954,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।