इन्ध दोप्तौ रुधा० आ० अक० सेट् निष्ठायामनिढ् । वर्त्त- मानेचाऽतोनिष्ठा । इन्धे, इन्धाते, इन्धते, “यं त्वां जनास इन्धते ऋ० ८, ४, ३ इन्धीत, इन्धाम् । इन्त् स्य इन्ध्वम् । ऐन्ध ऐन्धिष्ट इन्धाम्--बभूव । आस चक्रे इन्धिष्यते ऐन्धि- ष्यत । इन्धितव्यम् । इन्धिता इन्धनम् । इद्धोवर्त्तते । क्विप् समित् इन्धानः “अग्निमिन्धानो मनसा वियम् सचेत मर्त्यः” ऋ० । भावे इध्यते ऐन्धि । “परो यदिध्यते दिवि छा० उ० तु पदगणव्यत्यासः ।
इन्ध पु० इन्घ + करणे--घञ् । १ काष्ठे इन्ध--अच् । २ दीप्तियुक्ते । ३ तन्नामके ऋषिभेदे पु० ततः गोत्रे नडा० फक् । ऐन्धा- यनस्तद्गोत्रापत्ये पुंस्त्री । दीप्तियुक्ते दक्षिणनेत्रे विशेषेण स्थिते ४ परमात्मनि पु० । तस्य तदर्थत्वञ्च समर्थितम् वृ० उ० भा० । “इन्धोह वै नामैष योऽयं दक्षिणेऽक्षन् पुरुषस्त वा एतमिन्धं सन्तमिन्द्र इत्याचक्षते परोक्षैणेव, परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः” “इन्धोह वै नाम इन्ध इत्येवं नामायं “चक्षुर्वै ब्रह्मेति” आदि- त्यान्तर्गतः पुरुष एषः, योऽयं दक्षिणेऽक्षन् अक्षिणि विशे- षेण व्यवस्थितः । स च सत्यनामा तं वा एतं पुरुषं दीप्तिगुणत्वात् प्रत्यक्षं नामास्य इन्ध इति तमिन्धं सन्तमिन्द्र इत्याचक्षते परोक्षेण, यस्मात् परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः प्रत्यक्षनामग्रहणं द्विषन्ति” भा० “इन्धयति दीपयति इन्ध--णिच्--अच् । ५ दीपके त्रि० । एतस्मात् पूर्वस्थयो! म्राष्ट्राग्नेयोः समासे मुम् । भ्रा- ष्ट्रमिन्धः अग्निमिन्धः । “होत्राध्वर्युरावया अग्निमिन्धो ग्रावग्राभः” यजु० २५, २८, अग्निमिन्धश्च अग्नीत् नाम ऋत्विक् ।
📄 मूल मुद्रित पृष्ठ (0959,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।