इदन्द्र पु० इदं पश्यति दृश--बा० ड्रम् ६ त० । परमात्मनि तस्य निरुक्तिरैतरेये दर्शिता यथा “स एतमेव पुरुष ब्रह्म [] ततममपश्यदिदमदर्शमिति तस्मादिदन्द्रोनाम इदन्द्रो- हवै नामैनमेवमिदमिन्द्रं सन्तमित्याचक्षते परोक्षेण, परोक्ष प्रिया हि देवाः” ऐत० उ० विवृतञ्चैतद्भाष्ये । “यस्मादिदमि- त्येव यत्साक्षादपरोक्षाद्ब्रहृ सर्व्वान्तरमप्रश्यन्नपरोक्षेण । तस्मादिदं पश्यतीति इदन्द्रो नाम परमात्मा । इदन्द्रो- हवै नाम प्रसिद्धो लोक ईश्वरः । तमेवं इदन्द्रम् । इदमितिपरोक्षाभिधानेनाचक्षते ब्रह्मविदः संव्यवहारार्थं पूज्यतमत्वात् प्रत्यक्षनामग्रहणभयात् । तथा हि परो- क्षप्रियाः परोक्षनामग्रहणप्रिया एव ह्येव हि यस्माद्देवाः किमु सर्व्वदेवानामपि देवो महेश्वरः” विवृतमेतदानन्दगि- रिणा “तस्येदन्द्रनामप्रसिद्ध्यापि तस्य ज्ञानस्याऽपरोक्षत्वमिति वक्तु तस्मादिन्द्रैति वाक्यम् तद्व्याचष्टे । यस्मादिति ॥ यस्मात् सर्वान्तरं ब्रह्म इदमित्यपरोक्षं प्रत्यगात्मेत्येवाऽपश्य- दित्यन्वयः । कथमिदन्द्रनामत्वमत आह । इदन्द्रो ह वा इति । नन्विन्द्रो मायाभिरित्यादादिन्द्रप्रसिद्धेर्न त्विदन्द्र इत्यत आह । तमेबमिति । इदन्द्रस्यैव स्वतः परोक्ष- त्वार्थम् अक्षरलोपेनेन्द्र इत्याहुरित्यर्थः । परोक्षोक्तेः प्रयोजनमाह । पूज्येति । पूज्यानां परोक्षतयैव नाम वक्तव्यमित्यत्र प्रमाणमाह । तथा हीति । देवा इति पूज्या इत्यर्थः । अत एवाचार्य्या उपाध्याया इत्युक्तावेव प्रीतिं कुर्व्वन्ति लोके, न तु विष्णुमित्रादिनामग्रहण इति भावः । नाम्नः परोक्षत्वं नाम यथार्थनाम्नो रूपा- न्तरकरणेन स्वरूपाच्छादनमिति ज्ञेयम्” ।
📄 मूल मुद्रित पृष्ठ (0926-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।