🕉️ 20 November 2026, Friday · 03:43:09 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

इभानुन
ibhānuna
🟢 वाचस्पत्यम्
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
इभानुन पु० इभस्याननमेवाननं यस्य । गजानने गणेशे तस्य यथा तदाननत्वं तथोक्तं “स्वयं गोलकनाथश्च पुण्यकस्य प्रभावतः । पार्व्वतीगर्भजातश्च तव पुत्रो भविष्यति । स्वयं देवगणानाञ्च यस्मादीशः कृपानिधिः । गणेश इति विख्या- तो भविष्यति जगत्त्रये । “शनिदृष्ट्या शिरच्छेदात् गज- [] वक्त्रेण योजितः । गजाननः शिशुस्तेन नियतिः केन बाध्यते” ब्रह्मवै पु० ६ अ० । शनिदृष्ट्या तच्छिरश्छेद- कथा तत्रैव १२ अ० । “पार्व्वतीवचनं श्रुत्वा सोऽनु- मेने हृदा स्वयम् । पश्यामि किं न पश्यामि पार्व्वतीसुत- मित्यहो । यदि बलो मया दृष्टस्तस्य विघ्नो मवेद् ध्रुवम् । अन्यथा मे प्रलापस्तत्परतः खात्मरणम् । इत्या- लोच्य च धर्मिष्ठो धर्मं कृत्वा स्वसाक्षिणम् । बालं द्रष्टं मनश्चक्रे न बालमातरं शनिः । विषण्णमानसः पूर्वं शुष्क- कण्ठीष्ठतालकः । सव्यलोचनकोणेन ददर्श च शिशोर्मु- खम् । शनिश्च वृष्टिमात्रेण चिच्छेद मस्तकं मुने! । चक्षुर्निवारयामास तस्थौ नम्राननः शनिः” एवं शिरश्छे- दमुक्त्वा । “तान् सर्व्वान् मूर्च्छितान् दृष्ट्वा चारुह्य गरुडं हरिः । जगाम पुष्पभद्रां स उत्तरस्यां दिशि स्थिताम् । पुष्पभद्रानदीतीरे ददर्श काननस्थितम् । गजेन्द्रं निद्रितं तत्र शयानं हस्तिनीयुतम् । दिश्युत्तरस्यां शिरसं मू- र्च्छितं सुरतश्रमात् । परितः शावकान् कृत्वा परमान- न्दमानसम् । शीघ्रं सुदर्शनेनैव चिच्छेद तच्छिरो मुदा । स्थापयामास गरुडे रुघिराक्तं मनोहरम्” । गज- शिरश्छेदमुक्त्वा तत्पत्न्या स्तुतेन हरिणा तस्य कल्पान्त जीवनं वरोदत्त इत्युपवर्ण्य । “आगत्य बालकस्यानं बालं कृत्वाऽथ वक्षसि । रुचिरं तच्छिरः कृत्वा योजयामास बालके । ब्रह्मस्वरूपी भगवान् ब्रह्मज्ञानेन लीलया । जीवनं योजयाभास हुङ्कारोच्चारणेन च । पार्व्वतीं बोध- यित्वा तु दत्त्वा क्रोडे च तं शिशुम् । बोधयामास तां नाथ आध्यात्मिकविबोधनैः” “सेनाचरीभवदिभाननदानवा- रिवासेन यस्य जनितासुरभीरणश्रीः” नैष० । इभवक्त्रेभमुख- गमाननादयोऽप्यत्र । “तं नमामि गजाननम्” माधवः ।
📄 मूल मुद्रित पृष्ठ (0981-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें