🕉️ 19 November 2026, Thursday · 07:49:27 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

इल्वल
ilvala
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
इल्वल संज्ञा पुं॰ [सं॰]
१. एक दैत्य या असुर का नाम । विशेष—इसका एक नाम आतापि भी थी । यह अपने छोटे भाई वातापि को भेड़ा बनाकर ब्राह्यणों को खिला देता और फिर उसका नाम लेकर बुलाता था । तब वह ब्राह्यण का पेट फाड़कर निकल आता था । इन दोनों अगस्त्य मुनि खाकर पचा गए थे ।
२. ईल या बाम मछली ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
इल्वल m. a kind of fish, L.
N. of a Daitya (the brother of Vātāpi), MBh.; Hariv.; VP.
📄 मूल मुद्रित पृष्ठ (168,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
इल्वल पु० इल + स्वप्ने वलच्--नि० गुणाभावः । १ मत्स्यभेदे २ असुरभेदे च मेदि० स च सिंहिकापुत्रभेदः “सिंहिकाया यथोत्पन्ना विप्रचित्तेः सुतास्तथा । दैत्यदानवसंयोगा- ज्जातास्तीव्रपराक्रमाः । सैहिकेया इति ख्यातास्त्रयो- दश महावलाः । व्यंशः शल्यश्च बलिनौ नभश्चैव महाबलः । वातापिर्नमुचिश्चैव इल्वलः सुसृमस्तथा । आञ्जिकोनरक- श्चैव (कालनेमि) कालनाभस्तथैव च । राहुर्ज्येष्ठस्तु तेषां वै सूर्य्यचन्द्रप्रमर्द्दनः” हरि० ३ अ० । तच्चरितं यथा “इल्वलो नाम दैतेय आसीत् कौरवनन्दन! । मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः । स ब्राह्मणं तपोयुक्तमुवाच दितिनन्दनः । पुत्रं मे भगवानेकमिन्द्रतुल्यं प्रयच्छतु । तस्नै स ब्राह्मणो नादात् पुत्रं वामवसन्नि- भम् । चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य ततो भृशम् । तदाप्रभृति राजेन्द्र! इल्वलो ब्रह्महाऽसुरः । मन्युमान् भ्रातरं छागं मायावी ह्यकरोत्ततः । मेषरूपी च वा- तापिः कामरूपोऽभवत् क्षणात् । संस्कृत्य च भोजयति ततो विप्रं जिघांसति । स चाह्वयति यं वाचा गतं वैव- स्वतक्षयम् । स पुनर्देहमास्थाय जीवन् स्म प्रत्यदृश्यत । ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम् । तं ब्राह्मणं [] भोजयित्वा पुनरेव समाह्वयत् । तामिल्वलेन महता खरेण वाचमीरिताम् । श्रुत्वाऽतिमायो बलवान् क्षिप्रं ब्राह्मणकण्टकः । तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महा- सुरः । वातापिः प्रहसन्राजन्निश्चक्राम विनाशयन् । एवं स ब्राह्मणान्राजन्! भोजयित्वा पुनः पुनः । हिसयामास दैतेय इल्वलो दुष्टचेतनः” भा० व० ९६ अ० । ३ मृगशिरोनक्षत्रशिरःस्थासु पञ्चसु तारासु स्त्रीब० व० । तत्र इन्वका इति पाठान्तरम । इन्वन्ति प्रीणयन्ति इवि- प्रीणने क्वुन् इदित्त्वात् नुम् क्षिपकादि० न अत इत्त्वम् इति भानुदीक्षितः । तेन इल्वका इति लकारमध्यपाठ- कल्पनं प्रामादिकमेव ।
📄 मूल मुद्रित पृष्ठ (0985-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
इल्वलः, पुं, (इल् + वलच् । निपातनात् गुणाभावः ।) दैत्यविशेषः । स च वातापेर्भ्राता । (स च सिंहि- कासुतः । यथा, हरिवंशे । ३ य अध्याये । “सैहिकेया इति ख्यातास्त्रयोदश महाबलाः । ९८ । ऐशः बल्यश्च बलिनौ नभश्चैव तथाबलः । वातापिर्नमुचिश्चैव इल्वलः खसृमस्तथा” ॥ ९९ ॥ तस्य विवृतिर्यथा महाभरते तीर्थयात्रापर्ब्बणि अगस्त्योपाख्याने ९६ अध्यायः । लोमश उवाच । “इल्वलो नाम दैतेय आसीत्कौरवनन्दन ! । सणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः । ४ । स ब्राह्मणं तपोयुक्तमुवाच दितिनन्दनः । पत्त्रं मे भगवानेकमिन्द्रतुल्यं प्रयच्छतु ॥ ५ ॥ तस्मिन् स ब्राह्मणो नादात् पुत्त्रं वासवसम्मितम् । चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य ततो भृशम् ॥ ६ ॥ तदा प्रभृति राजेन्द्र इल्वलो ब्रह्महासुरः । मन्युमान् भ्रातरं छागं मायावो ह्यकरोत्ततः ॥ ७ ॥ मेषरूपी च वातापी कामरूप्यभवत् क्षणात् । संस्कृत्य च भोजयति ततो विप्रं जिघांसति ॥ ८ ॥ स आह्वयति यं वाचा गतं वैवस्वतक्षयम् । स पुनर्दहमास्थाय जीवन् संप्रत्यदृश्यत ॥ ९ ॥ ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम् । तं व्राह्मणं भोजयित्वा पुनरेव समाह्वयत् ॥ १० ॥ तामिल्वलेन महता स्वरेण वाचमीरिताम् । श्रुत्वातिमायो बलवान् क्षिप्रं ब्राह्मणकण्टकः ॥ ११ ॥ तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महासुरः । वातापिः प्रहसन् राजन् निश्चक्राम विशाम्पते ॥ १२ ॥ एवं स ब्राह्मणान् राजन् भोजयित्वा पुनः पुनः । हिंसयामास दैतेय इल्वलो दुष्टचेतनः ॥ १३ ॥ अगस्त्यश्चापि भगवानेतस्मिन् काल एव तु । पितॄन् ददर्श गर्त्ते वै लम्बमानानधोमुखान् ॥ १४ ॥ ततः ९९ प्रध्याये इल्वलेन अगस्त्यातिथ्यं कृतम् ॥ यथा, -- लोमश उवाच । “इन्त्वलस्तान् विदित्वा तु महर्षसहितान् नृपान् । उपस्थितान् सहामात्यो विषयान्ते ह्यपूजयत् । १ । तेषां ततोऽसुरश्रेष्ठस्त्वातिथ्यमकरोत् तदा । सुसस्कतेत कौरव्य भ्रात्रा वातापिना तदा । २ । ततो राजर्षयः सर्व्वे विषण्णा गतचेतसः । वातापिं संस्कृतं दृष्ट्वा मेषभूतं महासुरम् । ३ । अथाववीदगम्त्यम्तान् राजर्षीनृषीसत्तमः । [] विषादो वो न कर्त्तव्यो ह्यहं भोक्षे महासुरं । ४ । धुर्य्यासनमथासाद्य निषषाद महानृषिः । तं पर्य्यवेशयद्दैत्येन्द्रः इल्वलः प्रहसन्निव । ५ । अगस्त्य एव कृस्नन्तु वातापिं बुभुजे ततः । मुक्तवत्यसुराह्वानमकरोत्तस्य चेल्वलः । ६ । ततो वायुः प्रादुरभूत् अधस्तस्य महात्मनः । शब्देन महता तात गर्ज्जन्निव यथा घनः । ७ । वातापे निष्क्रमस्वेति पुनः पुनरुवाच ह । ८ । तं प्रहस्याब्रवीत् राजन् अगस्त्यो मुनिसत्तमः । कुतो निष्क्रमितुं शक्तो मया जीर्णस्तु सोऽसुरः । ९ । इल्वलस्तु विषण्णोऽभूद्दृष्ट्वा जीर्णं महासुरम् । प्राञ्जलिश्च सहामात्यैरिदं वचनमब्रवीत् । १० ।) मत्स्यविशेषः । इति मेदिनी ॥
📄 मूल मुद्रित पृष्ठ (1-214-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "इल्वल" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें