इषुमात्र न० इषुप्रभाणमस्य इषु + मात्रच् । १ शरप्रमाणे ऋग्- वेदिनां २ कुण्डेकुण्डशब्दे विवृतिः । ३ इषुप्रमाणमात्रे त्रि० स्त्रियां ङीप् । “यद्येकः पशुः स्यात् एकप्रादेशां कुर्य्यात् अथ यदि पञ्च पशवः स्युः पञ्चप्रादेशां कुर्य्यादिषुमात्रीं वा वीर्य्यं वा इषुर्वीर्य्यसम्मितैव तद्भवति । पञ्चप्रादेशा हस्म त्वेव पुरेषुर्भवति” शत० ब्रा० ६, ५, २, १० । इदमुखा- मधिकृत्य प्रवृत्तम् । उखां करोतीत्युपक्रम्य “पञ्चप्रादेशा गिषुमात्री वा तिर्य्यक् पञ्चपशौ” कात्या० १६, ३, ३५, उक्तेः । इषुमानं च अङ्गुल्यवधिबाहुमूलपर्य्यन्तमानं तच्च प्रादेशत्रयम् याज्ञिकसम्प्रदायप्रसिद्धम् । ४ शरगतिपर्य्य- न्तमाने च । “अथ यदब्रवीत् वर्द्धस्वेति । तस्मादु ह स्मेषु- मात्रमेव तिर्य्यक् वर्द्धते इषुमात्रं प्राङ्क्सोऽवैवावरं समु- द्रम् दघावव” शत० ब्रा० १, ६, ३, ११ वृत्तासुरवर्द्धन प्रकारः । “इषुमात्रं धनुषः सकाशात् बलात् प्रयुक्तेषु- र्यावद्दूरं गच्छति तावन्मात्रं प्रतिक्षणं तिर्य्यक् उभय पार्श्वतः अवर्द्ध्वत” भा० । शरविक्षेपप्रमाणञ्च । इषु- विक्षेपशब्दे दृश्यम् ।
📄 मूल मुद्रित पृष्ठ (0990,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।