उन्दुर(रु) पु० उन्द--उर--उरुवा । मूषिके मूषिक- भेदास्तद्दंशोपद्रवाश्च सचिकित्साः सुश्रु० दर्शिता यथा । “अथाती मूषिककल्पं व्याख्यास्यामः । पूर्वमुक्ताः शुक्र विषा मूषिका ये समासतः । नामणक्षणभैवज्यैरष्टादश निबोध तान् । लालनः पुत्त्रकः कृष्णो हिंसिरश्चिक्विर- स्तथा । छुछुन्दरोऽलसश्चैव कषायदशलोऽपि च । कुलि- ङ्गश्चाजितश्चैव चपलः कपिलस्तथा । कोकिलोऽरुणसंज्ञश्च महाकृष्णस्तथोन्दुरः । श्वेतेन महता सार्द्ध्वंकपिलेनाखुना तथा । मूषिकश्च कपोतामस्तथैवाष्ठादश स्मृताः । शुक्रं पतति यत्रैषां शुक्रघृष्टैः स्पृशन्ति वा । नस्कदन्तादिभि- स्तस्मिन् गात्रे रक्तं प्रदुष्यति । जायन्ते ग्रन्ययः शेफा कर्णिका मण्डलानि च । पिडकोपचयश्चोग्रा विसर्पाः किटिभानि च । पूर्व्वभेदोरुजस्तीव्रा ज्वरोमूर्च्छा च दारु- णा । दौर्व्वल्यमरुचिः श्वासो वमथुर्लोमहर्षणम् । दष्ट- रूपं समासोक्तमेतच्च व्यासतः शृणु । लालास्रावो लालनेन हिक्काच्छर्दिश्च जायते । तण्डुलीयककल्कन्तु लिह्यात्तत्र समाक्षिकम् । पुत्त्रकेणाङ्गसादश्च पाण्डुवर्णश्च जायते । चीयते ग्रन्थिभिश्चाङ्गमाखुशावकसन्निभैः । शिरीषेङ्गुदकल्कन्तु लिह्यात्तत्र समाक्षिकम् । कृष्णेना सृक् छर्दयति दुर्दिनेषु विशेषतः । शिरीषफलकुष्ठन्तु पिवेत् किंशुकभस्मना । हिंसिरेणान्नविद्वेषो जृम्भा लोमाञ्चहर्षणम् । पिवेदारग्बधादिन्तु सुवान्तस्तत्र भान- वः । चिक्विरेण शिरीदुःखं शोफो हिक्का वमी तथा । जाणिनीमदनाङ्कोठकषायैर्वामयेत्तु तम् । छुच्छुन्दरेण तृट्- छर्दिज्यरोऽलावण्यमेव च । ग्रीवास्तम्भः पृष्ठशोको गन्धा- ऽज्ञानं विसूचिका । चव्यं हरीतकीं शुण्ठीं बिडङ्गं पि- पूपलीं मधु । यवनालर्षभक्षारं वृहत्याश्चात्र दापयेत् । ग्रीवाऽ- [] स्तम्भोऽलसेनोर्द्ध्ववायुर्दंशे रुजा ज्वरः । महागदं ससर्पिष्कं लिह्यात्तत्र समाक्षिकम् । निद्रा कषायदन्तेन हृच्छोषः कार्श्यमेव च । क्षौद्रोपेताः शिरीषस्य लिह्यात् सार- फलत्वचः । कुलिङ्गेन रुजः शोफो राज्यश्च दंशम- ण्डले । सहे ससिन्धुवारे च लिह्यात्तत्र समाक्षिके । अजितेन वमी मूर्च्छा हृद्ग्रहः कृष्णनेत्रता । तत्र स्नु- हीक्षीरपिष्टां कालिन्दीं मधुना लिहेत् । चपलेन भवे- च्छर्दिर्मूर्च्छा च सह तृष्णया । सभद्रकाष्ठां सजटां क्षौ- द्रेण त्रिफलां लिहेत् । कपिलेन व्रणे कोथो ज्वरो ग्रन्व्युद्गमस्तथा । क्षौद्रेण लिह्यात्त्रिफलां श्वेतां- चापि पुनर्णवाम् । ग्रन्थयः कोकिलेनोग्रो ज्वरो दाहश्च दारुणः । वर्षाभूनीलिनीक्वाथसिद्धं तत्र घृतं पिबेत् । अरुणेनानिलः क्रुद्धो वातजान् कुरुते गदान् । महा- कृष्णेन पित्तञ्च श्वेतेन कफ एव च । महता कपिलेना सृक् कपोतेन चतुष्टयम् । भवन्ति चैषां दंशेषु ग्रन्थि- मण्डलकर्णिकाः । पिडकोपचयाश्चोग्राः शोफश्च भृश- दारुणः” ।
📄 मूल मुद्रित पृष्ठ (1188-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।