उक्षन् पु० उक्ष--कनिन् । १ वृषे, २ ऋषभौषधौ च । “विदलित- महाकूलामुक्ष्णां विषाणविघट्टनैः” माघः । “उक्षेव यूथा- परियन्नरावीत्” ऋ० ९, ७१, ९ । “उक्षा मिमाति प्रति यन्ति धेनवः” ऋ० ९, ६९, ४ । “शरद्घनाद्दीधितिमानि- वोक्ष्णः” कुमा० “न वराहं न चोक्षाणं न मृगान् विविधां- स्तथा” भा० व० १३१ । “उक्षाणं पक्त्वा सह ओदनेन तस्मात् कपोतात् प्रति ते नयेद्वा” भा० व० १९६ । “नीलं चोक्षाणं मेध्यमप्यालभेत” भा० आश्व० ११ अ० । ३ सेच- नकर्त्तरि । सेचके त्रि० । “उक्षा समुद्रो अरुषः सुपर्णः” ऋ० ५, ४७, ३, उक्षा बिभर्त्ति भुवनानि वाजयुः” ऋ० ९, ८३, ३ । आत्मन उक्षाणं वृषमिच्छति उक्षीयति [] वेदे तु न नलोपः । उक्षण्यति । “वयं हि वां हवामहे उक्षण्यन्तो व्यश्ववत्” ऋ०, ६, ९ । ततः कर्त्तरि उ उक्षण्यु आत्मनोवृषेच्छौ “व्यश्वस्तावसुविदमुक्षण्युरप्राणादृषिः” ऋ० ८, २३, १८ । जातवृद्धमहद्भ्यः परस्य अच् समा० । जातोक्षः वृद्धोक्षः महोक्षः “महोक्षं वा महजां वा श्रोत्रियाय प्रक- ल्पयेत्” स्मृतिः “विलोक्य वृद्धोक्षमधिष्ठितं त्वया” कुमा० । उक्ष्णोऽपत्यम् अण् टिलोपः । औक्ष्ण तदपत्ये तस्येदमि- त्यणि अनपत्ये तु नलोपः न टिलोपः । औक्ष सि० कौ० उक्ष्णां समूहः वुञ् । औक्षक वृषसंघे न० । कुरुपूर्व्ववंश्ये ४ राजभेदे च । तस्य गोत्रापत्ये ण्य न वृद्धिः । उक्षण्य- तद्गोत्रापत्ये पुंस्त्री० । तदन्तत्वात् फक् उक्षण्यायनः “ऋज्रपुक्षण्यायने रजतं हरयाणे” ऋ० ८, ५, २, २२ । “उक्षनामा कश्चित् कुरोः पूर्व्वजः तस्य गोत्रपत्ये उक्षन् शब्दात् ण्यः तदन्तत्वात् फक् । संज्ञापूर्व्वकविधिरनित्य इति न वृद्धिः अयञ्च छान्दसः लोकेऽस्य न प्रयोगः” भा० ।
📄 मूल मुद्रित पृष्ठ (1054-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।