🕉️ 23 November 2026, Monday · 08:26:06 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

उग्रतारा
ugratārā
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
उग्रतारा संज्ञा स्त्री॰ [सं॰ ] एक देवी [को॰] ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
उग्र—तारा f. N. of a goddess, KālikāP.
📄 मूल मुद्रित पृष्ठ (172,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
उग्रतारा, स्त्री, (उग्रादपि भयात् भक्तान् त्राति तारयति वा या ॥ उग्र + तॄ + णिच् + अच् + टाप् । यथा, निरुक्तौ । “उग्रादपि भयात् त्राति यस्मात् भक्तान् सदा- म्बिका” ।) देवीविशेषः । अस्या उत्पत्त्यादि यथा, -- “सर्व्वेषामेव देवानां यज्ञभागानपाहरत् । स्वयं शुम्भो निशुम्भश्च दिक्पालत्वं तथा गतौ ॥ सर्व्वे सुरगणाः सेन्द्रास्ततो गत्वा हिमाचलम् । गङ्गावतारनिकटे महामायां प्रतुष्टुवुः ॥ अनेकसंस्तुता देवी तदा सर्व्वामरोत्करः । मातङ्गवनितामूर्त्तिर्भूत्वा देवानपृच्छत ॥ युष्माभिरमरैरत्र स्तूयते का च भाविनी । किमर्थमागता यूयं मातङ्गस्याश्रमं प्रति ॥ एवं ब्रुवन्त्या मातङ्ग्यास्तस्यास्तु कायकोषतः । समुद्भूताब्रवीद्देवी मां स्तुवन्ति सुरा इति ॥ शुम्भो निशुम्भो ह्यसुरौ बाधेते सकलान् सुरान् । तस्मात्तयोर्बधायाहं स्तूयेऽद्य सकलैः सुरैः ॥ विनिःसृताया देव्यास्तु मातङ्ग्याः कायतस्तदा । भिन्नाञ्जननिभा कृष्णा साभूद्गौरी क्षणादपि ॥ कालिकाख्याभवत् सापि हिमाचलकृताश्रया । तामुग्रतारामृषयो वदन्तीह मनीषिणः ॥ उग्रादपि भयात्त्राति यस्माद् भक्तान् सदाम्बिका । एतस्याः प्रथमं वीजं कथितं तन्त्रमेव च” ॥ * ॥ “एषैवैकजटाख्यातिर्यस्मात्तस्या जटाधिका । शृणु त्वं चिन्तनं चास्याः सम्यक् वेतालभैरवौ ॥ यथा ध्यात्वा महादेवीं भक्तः प्राप्नोत्यभीप्सितम् । [] चतुर्भुजां कृष्णवर्णां मुण्डमालाविभूषिताम् ॥ खड्गं दक्षिणपाणिभ्यां बिभ्रतीन्दीवरं त्वधः । कर्त्रीञ्च खर्परञ्चैव क्रमाद्वामेन बिभ्रतीम् ॥ खं लिखन्तीं जटामेकां बिभ्रतीं शिरसा स्वयम् । मुण्डमालां धरां शीर्षे ग्रीवायामपि सर्व्वदा ॥ वक्षसा नागहारन्तु बिभ्रतीं रक्तलोचनाम् । कृष्णवस्त्रधरां कट्यां व्याघ्राजिनसमन्विताम् ॥ वामपादं शवहृदि संस्थाप्य दक्षिणं पदम् । विनस्य सिंहपृष्ठे तु लेलिहाना शवं स्वयम् ॥ साट्टहासमहाघोरा रावयुक्तातिभीषणा । चिन्त्योग्रतारा सततं भक्तिमद्भिः सुखेप्सुभिः” ॥ * ॥ “एतस्याः संप्रवक्ष्यामि या अष्टौ योगिनीस्तु ताः । महाकाल्यथ रुद्राणी उग्रा भीमा तथैव च । घोरा च भ्रामरी चैव महारात्रिश्च सप्तमी ॥ भैरवी चाष्टमी प्रीक्ता योगिनीस्ताः प्रपूजयेत्” । इति कालिकापुराणे ६० अध्यायः ॥ * ॥ अपिच “ब्रह्मशैलस्य पूर्व्वस्यां भूमिपीठे व्यवस्थिता । “चारुनिम्नं शुभावर्त्तं कामाख्यानाभिमण्डलम् ॥ यत्रोग्रतारारूपेण रमते परमेश्वरी । तत्र तेनैव रूपेण पूजितव्या शुभात्मिका ॥ तस्यास्तु वीजं पूर्व्वस्मिन् उत्तरे प्रतिपादितम् । रूपं शृणु नरश्रेष्ठ येन ध्येया सदाशिवा ॥ कृष्णा लम्बोदरी दीर्घा विरला रक्तदन्तिका । चतुर्भुजा कृशाङ्गी तु दक्षे कर्त्तृकखर्परौ ॥ खड्गं चेन्दीवरं वामे शीर्षे त्वेकजटां पुनः । वामपादं शवस्योर्व्वोर्निधायोत्थाय दक्षिणम् ॥ शवस्य हृदये न्यस्य साट्टहासं प्रकुर्व्वती । नागहारशिरोमालाभूषिता कामदा परा ॥ त्रिकोणं मण्डलं चास्या हुंकारमध्यवीजकम् । द्वारे नानायोगिनीनां नामान्यस्यास्तु तन्त्रके ॥ ज्ञेयानि नरशार्द्दूल तत्प्रोक्तं वान्यगोचरे” । इति कालिकापुराणे कामाख्यारूपनिर्णये ८१ अध्यायः ॥ * ॥ सा च वशिष्ठशापात् वामा भूता । यथा, -- और्व्व उवाच । “एतद्विष्णोर्व्वचः श्रुत्वा विधिना सहितः स तु । अङ्गीचकार हृदये तद्वचः साध्यसाधने ॥ विसृज्य तान् ब्रह्मविष्णुयमान् वृषभवाहनः । आदाय सगणान् सर्व्वान् कामरूपान्तरं ययौ ॥ उग्रतारां ततो देवीं गणांश्च प्राह शङ्करः । उत्सारयन्तु सकलान् इमान् लोकान् गणा द्रुतम् ॥ उग्रतारे महादेवि त्वञ्चाप्युत्सारय द्रुतम् ॥ ततो गणाः कामरूपाद्देवीचाप्यपराजिता । लोकानुत्सारयामासुः पीठं कर्त्तुं रहस्यकम् ॥ उत्सार्य्यमाने लोके तु चतुर
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔁 जिनके अर्थ में "उग्रतारा" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬