🕉️ 25 November 2026, Wednesday · 10:33:03 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

उतङ्कमेव
utaṅkameva
🟢 वाचस्पत्यम्
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
उतङ्कमेव पु० उतङ्कार्थमीश्वरेण प्रवर्त्तितोमेघः । मरुदेशस्थोत- ङ्कतोयाकाङ्क्षापूरणार्थमीश्वरेण कृष्णेन नियोजिते मेघे । तत्कथा भा० आश्व० ५५ अ० । “उतङ्क उवाच । अव- श्यकरणीयञ्च यद्येतन्मन्यसे विभो! । तोयमिच्छामि यत्रेष्टं मरुष्वेतद्धि दुर्लभम् । ततः संहृत्य तत्तेज प्रो- वाचोतङ्कमीश्वरः । एष्टव्ये सति चिन्त्योऽहमित्युक्त्वा [] द्वारकां ययौ । ततः कदाचिद्भगवानुतङ्कस्तोयका- ङ्क्षया । तृषितः परिचक्राम मरौ सस्मार चाच्युतम् । ततो दिग्वाससं धीमान्मातङ्गंमलपङ्किनम् । अपश्यत मरौ तस्मिन् श्वयूथपरिवारितम् । भीषणं बद्धनिस्त्रिंशं वाण- कार्मुकधारिणम् । तस्याधः स्रोतसो ऽपश्यत् द्वारि भूरि द्विजोत्तमः । स्मरन्नेव च तं प्राह मातङ्गः प्रहसन्निव । एह्युतङ्क! प्रतीच्छस्व मत्तो वारि भृगूद्वह! । कृपा हि मे सुमहती त्वां दृष्ट्वा तृट्समाश्रितम् । इत्युक्तस्तेन स मुनिस्तत्तोयं नाभ्यनन्दत । चिक्षेप च स तं धीमान् वाग्भिरुग्राभिरच्युतम् । पुनः पुनश्च मातङ्गः पिब- स्वेति तमब्रवीत् । न चापिबत् स सक्रोधः क्षुधितेनान्त- रात्मना । स तयो निश्चयात्तेन प्रत्याख्यातो महात्मना । श्वभिः सह महाराज! तत्रैवान्तरधीयत । उतङ्कस्तं तथा दृष्ट्वा ततो व्रीडितमानसः । मेने प्रलब्धमात्मानं कृष्णे- नामित्रघातिना । अथ तेनैव मार्गेण शङ्खचक्रगदा- धरः । आजगाम महाबुद्धिरुतङ्कश्चैनमब्रवीत् । न दत्तं तादृशं दातुं त्वया पुरुषसत्तम । सलिलं विप्र- मुख्येभ्यी मातङ्गस्रोतसा विभो । इत्युक्तवचनं तन्तु म- हाबुद्धिर्ज्जनार्द्दनः! । उतङ्कं श्लक्ष्णया वाचा सान्त्व- यन्निदमब्रवीत् । यादृशेनेह रूपेण योग्यं दातुं धृतेन वै । तादृशं खलु ते दत्तं तच्च त्वं नावबुध्यथाः । मया त्वदर्थमुक्तो वै वज्वपाणिः पुरन्दरः । उतङ्का- यामृतं देहि तीयरूपमिति प्रभुः । स मामुवाच देवे- न्द्री न मर्त्योऽमर्त्यतां व्रजेत् । अन्यमस्मै वरं देही- त्यसकृद्भृगुनन्दन । अमृतं देयमित्येव मयैवोक्तः शची- पतिः । स मां प्रसाद्य देवेन्द्रः पुनरेवेदमब्रवीत् । यदि देयमवश्यं वै मातङ्गो हि महामते! । भूत्वाऽमृतं प्रदा- स्यामि भार्रवाय महात्मने । यद्येवं प्रतिगृह्णाति भार्गवोऽमृतमद्य वै । प्रदातुमेष गच्छामि भार्गवस्यामृतं विभो! । प्रत्याख्यातस्त्वहं तेन दास्यामि न कथञ्चन । स तथा समयं कृत्वा तेन रूपेण वासवः । उपस्थित- स्त्वया चापि प्रत्याख्यातोऽमृतं ददत् । चाण्डालरूपी भगवन्! सुमहांस्ते व्यतिक्रमः । तन्न शक्यं मया कर्त्तुं भूय एव तषेप्सितम् । तोयेप्सां तव दुर्द्धर्षां करिष्ये सफलामहम् । येष्वहःसु च ते ब्रह्मन् । सलिलेप्सा भवि- ष्यति । तदा मरौ भविष्यन्ति जलपूर्णाः पयोधराः । रसवच्च प्रदास्यन्ति तोयं ते भृपुनन्दन! । उतङ्कमेषा इत्युक्ताः ख्यातिं यास्यन्ति चापि ते । इत्युक्तः प्रीति- [] मान् विप्रः कृष्णेन स बभूव ह । अद्याप्युतङ्कमेघाश्च मरौ वर्षन्ति भारत” ।
📄 मूल मुद्रित पृष्ठ (1074-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬