उतथ्य पु० अङ्गिरसः श्रद्वायां पत्न्यामुत्पन्ने गुरोर्ज्येष्ठभ्रातरि । “त्रयोह्यङ्गिरसः पुत्रा एते सर्वत्र विश्रुताः । वृहस्पति- रुतथ्यश्च संवर्त्तश्च धृ तव्रतः” भा० आ० ६६ अ० । तस्या- पत्यम् अण् औतथ्यः स च उतथ्येन ममतायामुत्पन्नः वृहस्पतिशापात् जात्यन्धतां प्राप्तस्तत्कथा यथा “अथोतथ्य इति ख्यात आसीद्धीमानृषिः पुरा । ममता नाम तस्यासीद्भार्य्या परमसम्मता । उतथ्यस्य यवी- यांस्तु पुरोधास्त्रिदिवौकसाम् । द्बहस्पतिर्वृहत्तेजा मम- तामन्वपद्यत । उवाच ममता तन्तु देवरं वदतांवरम् । अन्तर्व्वत्नी त्वहं भ्रात्रा ज्येष्ठेनारम्यताभिति । अयञ्च भे सहाभाग! कुक्षावेव वृहस्पते! । औतथ्यो वेदमत्रापि षडङ्गं प्रत्यधीयत । अमोघरेतास्त्वञ्चापि द्वयोन्नास्त्यत्र सम्भवः । तस्मादेवञ्च नत्वद्य उपारमितुमर्हसि । एव- मुक्तस्तदा सम्यग्वृहस्पतिरधीरधीः । कामात्मानं तदा- त्मानं न शशाक नियच्छितुम् । स बभूव ततः कामी तया सार्द्धमकामया । उत्सृजन्तन्तु तं रेतः स गर्भस्थो- ऽभ्यभाषत । भोस्तात! मा गमः कामं द्वयोर्न्नास्तीह सम्भवः । अल्पावकाशो भगवन्! पूर्व्वं चाहमिहागतः । अमोघरेताश्च भवान्न पीडां कर्त्तुमर्हसि । अश्रुत्वैव तु त- द्राक्यं गर्भस्थस्य वृहस्पतिः । जगाम मैथुनायैव ममतां चारुलोचनाम् । शुक्रोत्सर्गं ततो बुद्ध्वा तस्या गर्भगतो मुनिः । पद्भ्यामारोधयन्मार्गं शुक्रस्य च वृहस्पतेः । स्थानमप्राप्तमपतद्रेतः प्रतिहतं तदा । पपात सहसा मूमौ ततः क्रुद्धो वृहस्पतिः । तदृष्ट्वा पतितं शुक्र श- शाप स रुषाऽन्वितः । उतथ्यपुत्त्रं गर्भस्थं निर्भर्त्स्य भगवानृषिः । यन्मां त्वमीदृशे काले सर्व्वभूतेप्सिते सति । एवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि । स वै दीर्घतमा नाम शापादृषिरजायत । वृहस्पतेर्वृहत्कीर्त्तेर्वृह- स्पतिरिवौजसा । जात्यन्धो वेदवित्प्राज्ञः पत्नीं लेभे स विंद्यया । तरुणीं रूपसम्पन्नां प्रद्वेषीं नाम ब्राह्मणीम् । स पुत्राञ्जनयामास गौतसादीन् महायशाः । ऋषेरुत- थ्यस्य तदा सन्तानकुलवृद्धये । धर्मात्मा च महात्मा च वेदवेदाङ्गपारगः । गोधर्मं सौरभेयाच्च सोऽधीत्य निखिलं मुनिः । प्रावर्त्तत तदा कर्त्तुं श्रद्धावांस्तमशङ्कया” । भा० आ० १०४ अ० । “शूद्रावेदी पतयत्रेरुतथ्यतनयस्य च” मनुः । “उतथ्यतनयस्य गौतमस्येति” कुल्लू० । तस्य [] उतथ्यपौत्रत्वेऽपि तत्कुलवर्द्धनात्तथात्वं तस्य जात्य- न्धतया स्मृतिकर्त्तृत्वाभावेन तत्पौत्रस्यैव गौतमस्य स्मृति कर्त्तृत्वात् तस्यैव सम्मतिकथनं युक्तमिति” “तथ्यामुतथ्या नुवज्जगादाग्रे गदाग्रजः” माघः । अयञ्च आङ्गिरस- गोत्रप्रवरमध्यस्थ ऋषिभेदः ८१७ पृ० विवृतः ।
📄 मूल मुद्रित पृष्ठ (1075-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।