उत्तमर्ण पु० उत्तममृणमस्य । ऋणप्रयोजके (महाजन) । उत्तमर्णवृद्ध्यादिग्रहणधर्मोविष्णुना दर्शितो यथा “अथोत्त- मर्णोऽधमर्णाद्यथादत्तमर्थं गृह्णीयात् द्विकं त्रिकं चतुष्कं पञ्चकञ्च शतं वर्णानुक्रमेण प्रतिमासम् । सर्वेवर्णा वा स्वप्रतिपन्नां वृद्धिं दद्युः । अकृतामपि वत्सरातिक्रमेण यथाविहिताम् । आध्युपभोगे वृद्ध्यभावः । दैवराजोप- घातादृते विनष्टमाधिमुत्तमर्णोदद्यात् । अन्तवृद्धौ प्रवि- ष्टायामपि । न स्थावरमाधिमृते वचनात् । गृहीतधनप्रवे- शार्थमेव यत् स्थावरं दत्तं तद्गृहीतधनप्रवेशे दद्यात् । दीयमानं प्रयुक्तमर्थमुत्तमर्णस्यागृह्णतस्ततः परं न वर्द्धते । हिरण्यस्य परा वृद्धिर्द्विगुणा, धान्यस्य त्रिगुणा, व- स्त्रस्य चतुर्गुणा, सन्ततिः स्त्रीपशूनाम् । किण्वका- र्पाससूत्रचर्म्मायुधेष्टकाङ्गाराणामक्षया, अनुक्तानां द्वि- गुणा । प्रयुक्तमर्थं यथा कथञ्चित् साधयन्न राज्ञोवाच्यः स्यात् । साध्यमानश्चेद्राजानमभिगच्छेत्तत्समं दण्ड्यः । उत्तमर्णश्चेद्राजानमियात्तद्विभावितोऽधमर्णोराज्ञे धनद- शभागसम्मितं दण्डं दद्यात् । प्राप्तार्थश्चोत्तमर्णोविंशति- तितममंशम् । सर्व्वापलाप्येकदेशविभावितोऽपि सर्वं द- [] द्यात् । तस्य च भावनास्तिस्रोभवन्ति लिखितं साक्षिणः समयक्रिया च । ससाक्षिकमाप्तं ससाक्षिकमेव दद्यात् । लिखितार्थप्रविष्टे लिखितं पाटयेत् । असमग्रदाने लेख्या- सन्निधाने चोत्तमर्णोलिखितं दद्यात्” । अधिकमृणशब्दे वक्ष्यते । उत्तमं देयत्वेनास्त्यस्य ठन् । उत्तमर्ण्णिको- ऽप्यत्र । “पञ्च पञ्चशतम् दाप्यः प्राप्तार्थोह्युत्तमर्ण्णिकः” या० स्मृ० । “यैर्यैरुपापैरर्थं स्वं प्राप्नुयादुत्तमर्ण्णिकः । स्तैस्तैरुपायैः संगृह्य दापयेदधमर्णिकम्” मनुः “ते च उपा- या वृहस्पतिना दर्शिताः यथा । “छद्मना याचितञ्चार्थ- मानीय ऋणिकाद्बलैः । अन्याहृतादि वाऽऽहृत्य दाप्यते तत्र सोपधिः । दारपुत्रपशून् हृत्वा कृत्वा द्वारोपवे- शनम् । यत्रार्थी दाप्यतेऽर्थं स्वं तदाचरितमुच्यते । बद्ध्वा- स्वगृहमानीय ताडनाद्यैरुपक्रमैः । ऋणिको दाप्यते यत्र बलात्कारः स कीर्त्तितः” ।
📄 मूल मुद्रित पृष्ठ (1088-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।