उत्तमसाहस पु० साहसमधिकृततयाऽस्त्यस्य अर्श० अच् + कर्म्म० । स्मृत्युक्ते साहसाधिकारेण विहिते १ उत्कृष्टे दण्डे । “पणानां द्वे शते सार्द्धे प्रथमः साहसः स्मृतः । मध्यमः पञ्च विज्ञेयः सहस्रं त्वेष चोत्तमः” मनुः “अनाख्याय ददद्दोषं दण्ड्य उत्तमसाहसम्” या० स्मृ० नानास्थाने उत्तमदण्डविषयमाह विष्णः यथा दण्ड्य इत्युपकुमे “परस्य पतनीयाक्षेपे कृते तूत्तमसाहसम्” । “व्यङ्ग्यतायुक्ताक्षेपे कार्षापणशतम्” “मातृयुक्तेतूत्तमम्” “पारजायी सवर्ण्णागमने तूत्तमसाहसं दण्ड्यः” । “अदुष्टां (कन्याम्) दुष्टामिति ब्रुवन्नुत्तमसाहसम्” “फलोपगमद्रुमो- च्छेदी कीटोपघाती तूत्तमसाहसं दण्ड्यः” (अवगोरयिता) शस्त्रेणोत्तमसाहसं दण्ड्यः” नेत्रकन्धराबाहुसक्थ्यं सभ- ङ्गेचोत्तमम्” (साहसं दण्ड्यः) “रत्नान्यपहार्य्युत्तससाह- सम्” । “यस्तयोः (पितापुत्रयोर्विवादे) पान्तरः [] स्यात्तस्योत्तमसाहसः “तुलामानकूटकर्तुश्च तदकूटे कूट- वादिनश्च द्रव्याणां प्रतिरूपविक्रयिकस्य च” । “स- म्भूय बणिजां पण्यमनर्घेणावरुन्धताम्” प्रत्येकं “विक्रीणताञ्च” । “यस्तूत्तमवर्णान् दास्ये नियोजति- स्योत्तमसाहसदण्डः” । “सीमाभेत्तारमुत्तमसाहसेन दण्ड- यित्वा पुनः सीमां कारयेत्” “अभक्ष्यस्याविक्रेयस्य च विक्रयी देवप्रतिमाभेदकश्चोत्तमसाहसम् दण्डनीयः । “भिषङ्मिथ्याचरन्नुत्तमेषु पुरुषेषु” । २ प्राणिहिंसा- दिरूपे बलकृते कर्म्मभेदे न० । तत्रोत्तमसाहसा- दिस्वरूपलक्षणविभागादि मिता० दर्शितं यथा । “सामा- न्यद्रव्यप्रसभहरणात् साहसं स्मृतम्” या० स्मृ० । “सामान्यस्य साधारणस्य यथेष्टं विनियोगानर्हत्वाविशेषेण परकीयस्य वा द्रव्यस्यापहरणं साहसम् । कुतः प्रसभहर- णात् प्रसह्याहरणाब्बलावष्टम्भेन हरणादिति यावत् । एतदुक्तं भवति । राजदण्डञ्जनाक्रोशं चोल्लङ्घ्य राज- पुरुषेतरजनसमक्षं यत्किञ्चिद्धरणमारणपरदारप्रधर्षणादिकं क्रियते तत् सर्वं साहसमिति साहसलक्षणम् । अतः साधा- रणधनपरधनयोर्हरणस्यापि बलावष्टम्भेन क्रियमाणत्वा- त्साहसत्वमिति । नारदेनापि साहसस्य स्वरूपं विवृतम् । “सहसा क्रियते कर्म यत् किञ्चिद्बलदर्पितैः । तत्साहस- मिति प्रोक्तं सहो बलमिहोच्यते” । तदिदं साहसञ्चौ- र्य्यवाग्दण्डपारुष्यस्त्रीसंग्रहेषु व्यासक्तमपि बलदर्पावष्ट- म्भोपाधितोभिद्यत इति दण्डातिरेकार्थं पृथगभिधा- नस्य दण्डवैचित्र्यप्रतिपादनार्थं प्रथमादिभेदेन त्रैवि- ध्यमभिधाय तल्लक्षणन्तेनैव विवृतम् । “तत् पुनस्त्विविधं ज्ञेयं प्रथमं मध्यमन्तथा । उत्तमञ्चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक् । फलमूलोदकादीनां क्षेत्रोपकरणस्य च । भङ्गाक्षेपोपमर्दाद्यैः प्रथमं साहसं स्मृतम् । वासः- पश्वन्नपानानां गृहोपकरणस्य च । एतेनैव प्रकारेण म- ध्यमं साहसं स्मृतम् । व्यापादोविषशस्त्राद्यैः परदारा- भिमर्शनम् । प्राणोपरधि यच्चान्यदुक्तमुत्तमसाहसम् । तस्य दण्डः क्रियाक्षेपः प्रथमस्य शताबरः । मध्यमस्य तु शास्त्रज्ञैर्दृष्टः पञ्चशतावरः । उत्तमे साहसे दण्डः स- हस्रावर इष्यते । बधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने । तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहमे” इति । बधादय- श्चापराधतारतम्यादुत्तमसाहसे समस्ताव्यस्ता वा योज्याः” । तत्र परद्रव्यापहरणरूपे साहसे दण्डमाह” मिता० । “तन्मूल्याद्द्विगुणोदण्डोनिह्नवे तु चतुर्गुणः” या० स्मृ० । [] “तस्यापहृतद्रव्यस्य मूल्याद्द्विगुणोदण्डः यः पुनः साहसं कृत्वा नाहमककार्षमिति निह्नुते तस्य मूल्याच्चतुर्गुणो दण्डो भवति । एतस्मादेव विशेषदण्डविधानात् प्रथमसाह- सादिसामान्यदण्डविधानमपहारव्यतिरिक्तविषयम्” मिता०
📄 मूल मुद्रित पृष्ठ (1089-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।