उत्तरायण न० उत्तरा उत्तरस्यामयनं सूर्य्यादेः “पूर्व्वपदात् संज्ञायाम्” पा० णत्वम् । सूर्य्यादेः १ उत्तरदिग्ग- मने अभेदोचारात् ७ ब० वा । वर्षस्यार्द्धे सूर्य्यस्य दक्षिणत उत्तरदिग्गमनसम्पादके २ षण्मासात्मके काले सूर्य्यदेः दक्षिणोत्तरयोरयनञ्च अयनसंक्रान्तिशब्दे ३३९ पृ० उक्तम् तथा च सूर्य्यस्योत्तरायणसंक्रमावधि षण्मासाः उत्तरायणकालः । “कर्कटादिस्थिते भानौ दक्षि- णायनमुच्यते । उत्तरायणमप्युक्तं मकरस्थे दिवा- करे” म० त० विष्णुपु० । “एतन्मकरकर्कटादिसंक्रमे- णायननिरूपणम् श्रौतस्मार्त्तकर्म्मार्थं धनुरादौ सू- र्य्यसिद्धान्ताभिहितोदगयनादिनिरूपणन्तु रविगत्यनुसा- रेण दिनमानादिज्ञानार्थम्, इत्यत्यनयोर्न वि- रोधः” म० त० रघु० । “ततश्च मकरस्थिरसंक्रा- न्त्यवधिषड्मासाः स्थूलमुत्तरायणं चलमकरसंक्रान्त्य- वधि तु सूक्ष्ममिति भेदः । अस्य प्रशंसाऽपि “स यत्रो- दगावर्त्तते देवेषु तर्हि भवति देवास्तृंहति गोपायन्ति” शत० ब्रा० २, १, ३, ३ । “यदुत्तरायणं तदहर्देवानाम् दक्षि- णायनं रात्रिः संवत्सरोऽहोरात्रः” विष्णुः “अग्निर्ज्योति- रहःश्रुक्ल षण्मासा उत्तरायणम्” गीता । यथा चास्य सौर- त्वं तथाऽयनशब्दे ३३५ पृ० कालमाधवीयधृतप्रमाणादिना व्यवस्थापितम् । उपचारात् ३ तथागमनारम्भसंक्रान्तौ “मृगकर्कटसंक्रान्ती द्वेतूदग्दक्षिणायने” सूर्य्य० सि० । तत्र पुण्यकालताविषये “यावद्विंशकला भुक्ता तत्पुण्यं चीत्त- रायणे” “निरंशे भास्करे दृष्टे दिनान्तं दक्षिणारायने” म० त० भवि० पु० “भविष्यत्ययने पुण्यमतीते चोत्तरायणे” इति ति० त० देवीपु० । राशिसंक्रान्त्यभिप्रायमिदं वचनम् इति रघुनन्दनादवः । माधवादयस्तु चल संक्रान्तिपरत्वं तत्र विशेषपुण्यकालत्वं चाङ्गीचक्रुः । तच्च [] अयनसंक्रान्तिशब्दे ३३९ दर्शितम् । उत्तरायणकाला- भिमानिनि मृतविद्वत्प्राणिनां ब्रह्मादिलोकप्रापणाय अतिवाहनायेश्वरनियुक्ते चेतने ४ पुरुषमेदे “आतिवाहिका- स्तल्लिङ्गात्” शा० सू० भाष्ययोस्तथा व्यवस्थापितं तच्च आतिवाहिकशब्दे ६५१ पृ० दर्शितम् । तन्मूलमेव अग्निर्ज्योतिरित्यादिगीताव्याख्याने “अग्न्यादयस्तदभि- मानिनोदेवा” इति श्रीधरोक्तम् ।
📄 मूल मुद्रित पृष्ठ (1105-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।