उत्तरीय न० उत्तरस्मिन् देहभागे भवः गहा० छ । ऊर्द्ध्वदेहधार्य्ये वस्त्रे “धौतोत्तरीयप्रतिमच्छवीनि” माघः स्तनोत्तरीयाणि भवन्ति साक्षात्” “अथास्य रत्नग्रघितोत्तरीयम्” रघुः । प्रतिनिधिपर्य्यान्तोत्तरीयधारणावश्यकतोक्ता आ० त० यथा । “विकक्षोऽनुत्तरीयश्च नग्नश्चावस्त्र एव च । श्रौतं स्मार्त्तं तथा कर्म न नग्नश्चिन्तयेदपि” भृगु० तद्धारणप्र- कारश्च “यथा यज्ञोपवीतञ्च धार्य्यते च द्विजोत्तमैः । तथा संधार्य्यते यत्नादुत्तराच्छादनं शुभम्” स्मृतिः । “स्नायाद्वै वाससी धौते अक्लिन्ने परिधाय च । अभावे धौतवस्त्राणां शाणक्षौमाविकानि च । कुतपो योगपट्टं वा द्विवासा येन वा भवेत्” या० स्मृ० । “येन वेति उपवीतेन तत्प्रनिधीभूतेन कुशरज्ज्वादिना” आ० त० रघु० । “यज्ञोपवीते द्वे धार्य्ये श्रौतस्मार्त्तेषु कर्मसु । तृतीयञ्चीत्तरीयार्थं वस्त्राणामतिदिश्यते” स्मृतिः । वर्ज्यान्याह “न स्यूतेन न दग्धेन पारक्येण विशेषतः । मूषिकोत्कीर्ण्णजीर्णेन कर्म्म कुर्य्याद्विचक्षणः” आ० त० भारतम् । “न रक्तमुल्वणं वासो न नीलञ्च प्रश- स्यते । मलाक्तं च दशाहीनं वर्जयेदर्च्चने बुधः” नर- सिं० पु० । “दशाहीनेन वस्त्रेण कुर्य्यात् कर्म्माण्य- भावतः” उश० । “वस्त्रं नान्यधृतं धार्य्यं न रक्तं मलिनं तथा । जीर्णं वाऽपदशञ्चैव श्वेतं धार्य्यंप्रय- त्नतः” विष्णुध० पु० ।
📄 मूल मुद्रित पृष्ठ (1105,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।