उत्पलावती स्त्री उत्पलमुत् पलाकारं नेत्रमस्त्यस्याः मतुप् मस्यवः संज्ञायां दीर्घः । अप्सरोभेदे” काशीख० ९ अ० अप्स- रोलोलवर्ण्णने । “निर्मथ्यमानात् क्षोरोदात् पूर्व्वम- प्सरसस्त्वमूः । निःसृता त्रिजगज्जेतुर्मोहनास्त्रं मनो- भुवः । “उर्व्वशी मेनका रम्भा चन्द्ररेखा तिलोत्तमा । वपुष्मती कान्तिमती लीलावत्युत्पलावती । अलम्बुषा गुणवती स्थूलकेशी कलावती । कलानिविर्गुणनिधिः कर्पूरतिलकोर्व्वरा । अनङ्गलतिका चापि तथा मदन- मोहिनो । चकोराक्षी चन्द्रकला तथा मुनिमनोहरा । ग्रावद्रावा तपोद्वेष्ट्री चारुनासा सुकर्ण्णिका । दारुसंजी- वनी सुश्रीः कृष्णशुल्का शुभानना । तपःशुलका तीर्थशु- ल्का दानशुल्का हिमावती । पञ्चाश्वमेधिका चैव राजसू- यार्थिनी तथा । अष्टाग्निहोत्रिका तद्वद्वाजपेयशतोद्भता । कार्थ्यविस्मारयित्री च दृष्टिद्राया सुकल्पिनो । इत्याद्यस- रसां श्रेष्ठं सहस्रं षष्टिसंयुतम् । एतस्मिन्नप्सरो लोवे वसन्त्यत्या अपि स्त्रियः” ।
📄 मूल मुद्रित पृष्ठ (1122,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।