🕉️ 27 November 2026, Friday · 11:43:07 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

उदयगामिनी
udayagāminī
🟢 वाचस्पत्यम्
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
उदयगामिनी स्त्री उदयं सूर्य्योदयं गच्छति मुहूर्त्तादिना व्याप्नोति गम--णिनि ङीप् । “सूर्य्योदयावधिमुहूर्त्तादिका- लव्यापिन्यां तिथौ । कर्मानुष्ठाने उदयकाले कियन्मानस्य ग्राह्यता तन्निर्ण्णीतम्” का० मा० । “व्रतोपवासनियमे- षटिकैका यदा भवेत् । उदये सा तिथि ग्राह्या विपरीता तु पैतृके” ब्र० पु० । “व्रतोपवासस्नानादौ घटिकैका यदा भवेत् । उदये सा तिथिर्ग्राह्या श्राद्धादावस्तगामिनी” विष्णु० ध० पु० । “आदित्योदयवेलायां याऽल्पापि च ति- थिर्भवेत् । पूर्ण्णा इत्येव सा ज्ञेया प्रभूता नोदयं विना” देवलः । “यां तिथिं स मनुप्राप्य उदयं याति भास्करः । सा तिथिः सकला ज्ञेया स्नानदानजपादिषु” देवलः । “उदयन्नेव सविता यां तिथिं प्रतिपद्यते । सा तिथिः सकला ज्ञेया दानाध्ययनकर्मसु” व्यासः । “पक्षद्वयेऽपि [] तिथयस्तिथिं पूर्ब्धां तथोत्तराम् । त्रिभिर्मुहूर्त्तौर्वध्यन्ति सामान्योऽयं विधिः स्मृतः” पैठी० । “उदिते दैवतं भानौ पैत्र्यं चास्तमिते रवौ । द्विमुहूर्त्तं त्रिरह्नश्च सा तिथि- र्हव्यकव्ययोः” बौधा० । “भानाबुदिते सत्युत्तरकालेऽ- ह्नोमुहूर्त्तद्वयं दैवत्यम् । तस्मिंश्चास्तमिते ततः पूर्वकाली- नमह्नोमुहूर्त्तत्रयं पितृदैवत्यमतस्तावत्कालव्यापिनी या ति- थिर्भवति सैव क्रमेण हव्यकव्ययोर्ग्राह्या” अत्राशङ्कापूर्वकं माधवेन समाहितम् । नन्वस्त्वेवं कृत्स्नदिबसाभ्यनुज्ञा- तथाप्युत्तरबिद्धयास्तिथेर्ग्रहणे कियत्परिमाणमुदयेऽपेक्ष- णीयमिति विवेचनीयम् । तत्र बौधायनेन अल्पापीत्यभि- धानात् निमेषमात्रं प्रतिभाति, व्यासेन उदयन्नेवेत्य- भिधानात् तथैव प्रतिभाति । भतिष्यत्पुराणे तु षटिका- मात्रं बौधायनवचनान्तरे द्विभुहूर्त्तमित्येवं विरोधमाशङ्क्य “अत्रोच्यते “पौर्वाह्णिक्यस्तु तिथयस्त्रिमुहूर्त्ताः फलप्रदाः” वृ० या० वचनेन दैवे पूर्वाह्णव्याप्तायास्त्रिमुहूर्त्तमिता- यास्तिथेर्ग्रहणम् । त्रिमुहूर्त्तन्यूनायास्तिथेः पूर्वाह्णव्या- प्त्यभावात् पूर्वाह्णस्य च पञ्चधा विभक्तस्य मुख्यत्वात् उदिते भानौ त्रिमुहूर्त्तातिथिर्ग्राह्या । यत्तु “त्रिमुहूर्त्ता न कर्त्तव्या या तिथ्युदयगामिनीति” न तत् त्रिमुहूर्त्तव्या- प्तेर्बाधकं प्रत्युतोद्वोलकमेव । तथा हि प्रतिषेधः सर्वत्र प्रसक्तिपूर्व्वकः प्रसक्तिश्चात्र यथोक्तरीत्या पौर्व्वाह्णिकवाक्यात् त्रिमुहूर्त्तवेधविधायिपैठीनसिवाक्याद्वा भवति तस्य प्रसक्तं त्रिमुहूर्त्तत्वं समतिथौ बाधकाभावात्तथैव तिथिक्षये त्वधिक व्याप्तिविधित्सया प्रतिषिध्यते अतश्च तत्र चतुर्थमुहूर्त्त- स्पर्शिनी तिथिर्ग्राह्या तिथिसाम्यात् । तिथिवृद्धावपि मु- हूर्त्तत्रयमेव मुख्यं मुहूर्त्तद्वयं त्वनुकल्पः । एतदेव सूचयितुं द्विमुहूर्त्तापीत्यत्र अपिशब्दः पठ्यते” । ततः प्रासङ्गिकमन्यत् समाधाय उपसंहृतम् यथा “प्रकृते तु सूर्य्योदये मुहू- र्त्तत्रयव्यापिनी प्रतिपद्दानव्रतयोर्ग्रहीतव्या एवं सत्यु- दयमात्रव्याप्तिशास्त्रं घटिकामात्रव्याप्तिशास्त्रं च वैश्वानरा- धिकरणन्यायेनावयुत्यानुवादरूपतया त्रिमुहूर्त्तव्याप्तिं प्रशंसति । अथवा यदा पूर्बेद्युरुदयकालं परित्यज्योपरि सर्वत्र व्याप्नोति परेद्युरुदयकालमात्रं व्याप्नोति तदा- नीमुदयानन्तरभाविन्यामुख्यायास्त्रिमुहूर्त्तव्याप्तेर्दिनद्वयेऽप्य- भावेन द्वयोरपि दिनयोर्गौणकालत्वे सति किं ग्राह्यमिति वीक्षायां पूर्व्वदिने गौणकर्मकालव्याप्नेर्भूयस्त्वात्तस्यैव ग्रह- णंन्यायतः प्राप्तं केनापि निमित्तेन तत्प्रत्यूहे सति परेद्युः कर्मकालव्याप्तिसम्प्रादनाय पूर्णत्वमभिधायोदयविहीमस्य [] ष्वाप्तिबाहुल्य
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬