उदास्थित पु० उद् + आ + स्था--क्त । १ द्वारप्राले २ चरे ३ अ- ध्यक्षे च हेम० प्रव्रज्यारूढपतिते ४ प्रव्रज्यावसिते चरे च स च पञ्चविधचरान्तर्गतः । प्रव्रज्यावसितः प्रव्रज्यारूढ- पतित एव । तल्लक्ष्मादि “कृत्स्नं चाष्टविधं कर्म पञ्चवर्गञ्च तत्त्वतः” इति मनुवचनस्य कुल्लू० व्याख्यायाम् “कापटिकोदास्थितगृहपतिवैदेहिकतापसव्यञ्जनात्मकं पञ्चविधं चारवर्गं पञ्चवर्गशब्दवाच्यं तत्त्वतश्चिन्तयेत्” इति संक्षेपेणोक्त्वा । तत्र परमर्म्मज्ञः प्रगलभच्छात्रः कप- टव्यवहारित्वात्कापटिकस्तं वृत्त्यर्थिनमर्थमानाभ्यामुपगृह्य रहसि राजा ब्रूयात् “यस्य दुर्वृत्तम्पश्यसि तत्तदानीमेव मयि वक्तव्यमितिं । प्रव्रज्यारूढपतित उदास्थितः तं लोकेषुविदितदोषं प्रज्ञाशौचयुक्तं वृत्त्यर्थिनं ज्ञात्वा रहसि राजा पूर्ववद्ब्रूयात् बहूत्पत्तिकमठे स्थापयेत् प्रचुर शस्योत्पत्तिकम्भूम्यन्तरञ्च तद्वृत्त्यर्थमुपकल्पयेत् सचान्येषा- मपि पब्रजितानां राजचारकर्मकारिणां ग्रासाच्छादना- दिकं दद्यात् । कर्षकः क्षीणवृत्तिः प्रज्ञाशौचयुक्तो गृहपतिव्यञ्जनस्तमपि पूर्ववदुक्त्वा स्वभूमौ कृषिकर्म्म कार- येत् । बाणिजकः क्षीणवृत्तिः वैदेहिकव्यञ्जनस्तम्पूर्ववदुक्त्वा धनमानाभ्यामात्मीकृत्य बाणिज्यं कारयेत् । मुण्डोजठि- लोवा वृत्तिकामस्तापसव्यञ्जनः सोऽपि क्वचिद्ग्रामे वसन् बहुमुण्डजटिलान्तरकपटशिष्यगणवृतो गुप्तराजोपकल्पि- तवृत्तिः तपस्यां कुर्य्यात् मासद्विमासान्तरितं प्रकाशं वदरादिमुष्टिमश्नीयात् रहसि च राजोपकल्पितं यथेष्ट माहारं कल्पयेत् । शिष्याश्चास्यातीतानागतज्ञागादिकं ख्यापयेयुः तेन बहुलोकवेष्टनमासाद्य सर्वेषां विश्वसनीय त्वात् सर्वे कार्य्यमकार्य्यञ्च पृच्छन्ति । एवंरूपं पञ्चवर्गं यथावच्चिन्तयेत्” विशेषेणोक्तम् ।
📄 मूल मुद्रित पृष्ठ (1164,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।