उद्गातृ पु० उच्चैर्गायति साम उद् + गै--तृच् । १ सामवेद- [] गायके । अस्य च उद्गीथरूपसामावयवस्योच्चैर्गानादुद्गातृ- त्वम् । यथा चास्य तथात्वं तथा उद्गीथशब्दे बक्ष्यते । षोडशसु ऋत्विक्षु मध्ये २ ऋत्विग्भेदे । ते च ऋत्विजः अच्छावाकशब्दे ५४ पृ० दर्शिताः । “रथं हरेदथाध्वर्य्यु र्ब्रह्माधाने च वाजिनम् । होता चापि हरेदश्वमुद्गाता चाप्यनः क्रये” मनुः । राजसूये तस्य च दक्षिणाभेद उक्तः “सीवर्ण्णी स्रगुद्गातुः” आश्व० ९, ४, ९ । उद्- गातृप्रशंसनपूर्व्वं तत्कर्म्म च शत० ब्रा० दर्शितं यथा । “गृणाति ह वा एतद्धोता यच्छंसति । तस्मा एतद्गृणते प्रत्येवाध्वर्युरागृणाति तस्मात् प्रतिगरोनाम । तं वै प्राञ्च- मासीनमाह्वयते सर्वे वा अन्य उद्गातुः प्राञ्च आर्त्वि- ज्यं कुर्वन्ति तथो हास्यैतत् प्रागेवार्त्विज्यं कृतं भवति । प्रजापतिर्वा उद्गाता । योषऽग्र्घोता स एतत् प्रजा- पतिरुदुगाता योषायामृचि होतरि रेतः सिञ्चति- यत्स्तुते तद्धोता शस्त्रेण प्रजनयति तच्छ्यति यथायं पुरुषः शितस्तद्यदेनच्छ्यति तस्माच्छस्त्रं नाम” ४, ३, १, १, २, ३, । उद्गीथगानकर्त्तृत्वाच्च यथाऽस्योद्गातृत्वं तथोक्तं छा० उ० । “तस्यर्क् च साम च गेष्णौ तस्मादुद्गीथस्तस्मात्त्वे- वोद्गार्तवास्य हि गाता” “एवमेवोद्गातारमुवाचोद्गातः! या देवतोद्गीथमन्वायत्ता ताञ्चेदविद्वान् उद्गास्यसि मूर्द्धा ते विप- तिष्यतीति” च । तथाज्ञानपूर्व्वकोद्गानस्य फलमपि तत्रोक्तं यथा “य एवदेवं विद्वान् साम गायति उभौ स गायति सोऽमुनैव स एष ये चामुष्मात् पराञ्चोलोकास्तांश्चाप्नोति देवकामांश्च अथानेनैवमेवैतस्मादर्व्वाञ्चोलोकास्तांश्चाप्नोति मनुष्यकामांश्च । तस्मादुहैवं विदुद्गाता ब्रूयात् कं ते काममागानीति एष ह्येव कामागानस्येष्टे य एतदेवं विद्वान् साम गायति” छा० उ० ।
📄 मूल मुद्रित पृष्ठ (1167-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।