उद्दिष्ट त्रि० उद् + दिश--क्त । १ उपदिष्टे, २ अभिलषिते “तत्- समुदिष्टं कर्म” संक्षिप्तसारः छन्दःशास्त्रोक्ते निर्द्धारित- गुर्व्वादिस्थितिकभेदस्य प्रस्तारे कतमसंख्यकत्वज्ञानार्थे ३ उपायभेदे न० । तत्प्रकारो यथा “उद्दिष्टं द्विगुणा- नाद्यादुपर्यङ्कान् समालिखेत् । लघुस्था ये तु तत्राङ्कास्तैः सैकैर्मिश्रितैर्भवेत्” वृत्तर० । आद्यात् आद्यवर्णमारभ्य उपरि यथोत्तरं द्विगुणान् द्विगुणान् अङ्कान् समालिखेत् तत्र लघुवर्णोपरिस्थाङ्कैर्मिलितैः एकेन युक्तैः उद्दिष्टं स्यात् । यथा त्र्यक्षरप्रस्तारे मध्यगुरुको भेदः प्रस्तारे कियत्संख्यक इति प्रश्ने यथोत्तरं द्विगुणान् द्विगुणान् अक्षरसंख्यया अङ्कान् दद्यात् तत्र आद्यलघूपरिस्थेनैकाङ्केन तृतीय लघूपरिस्थचतुरङ्केण योगे पञ्चाङ्कः एकेन युक्तः षडङ्कः संपद्यते एवञ्च षष्ठोऽयं भेदैत्युत्तरम् । एवमन्यत्र कल्प्यम् । सर्वगुरुकभेदे तु लघुवर्णाभावात् योजका- ङ्काभावेन एकमात्रेण योज्याङ्केन प्रथमोभेद इत्युन्नेयम् । मात्रावृत्ते उद्दिष्टं विस्तरभयान्नोक्तमाकरे दृश्यम् ।
📄 मूल मुद्रित पृष्ठ (1175,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।