उद्यापन पुंन० उद् + या--णिच्--ल्युट् अर्द्धर्चादि । व्रतादि- समापने ब्रतप्रतिष्ठायाम् । हेमाद्रौ व्रतखण्डं “उद्यापनं प्रवक्ष्यामि” इत्यसकृत्व्रतभेदे प्रयोगः । प्रति- ष्ठा च कर्म्मान्तरं न तदङ्गमिति” रघु० । अस्येतिकर्त्त- व्यतासामान्यप्रकारः व्रतततत्त्वादौ अनुसन्धेयः । विशेषतस्तु तत्तद्व्रतोक्तविधायवाक्येभ्योऽवसेयः विस्तरस्तु हेमाद्रौ व्रत- खण्डे दृश्यः । तत्र तिथि० त० व्रतारम्भप्रतिष्ठयोर्व- र्ज्यकालमाह ज्योतिषे “गुरोर्भृगोरस्तबाल्ये वार्धके सिंहके गुरौ । वक्रिजीवाष्टविंशेऽह्नि गुर्वादित्ये दशा- हिके । पूर्वराशावनायातातिचारिगुरुवत्सरे । प्रा- ग्राशिगन्तृजीवस्य चातिचारे त्रिपक्षके । कम्पाद्यद्भुत सप्ताहे नीचस्थेज्ये मलिम्लुचे । भानुलङ्घितके मासि क्षये राहुयुते गुरो । पौषादिकचतुर्मासे चरणाङ्कित वर्षणे । एकेनाह्ना चैकदिने द्वितीयेन दिनत्रये । तृ- तीयेन तु सप्ताहे माङ्ग्यल्यानि शुभान्विताः । विद्या- रम्भकर्णवेधौ चूडोपनयनोद्वहान् । तीर्थस्नानमना- वृत्तं तथानादिसुरेक्षणम् । परीक्षाऽऽरामयज्ञांश्च पुर- श्चरणदीक्षणे । व्रतारम्भप्रतिष्ठा च गृहारम्भप्रवेशने । प्रतिष्ठारम्भणे देवकूपादेर्वर्जयन्ति च । द्वात्रिंशद्दिवसा- श्चास्ते जीवस्य भार्गवस्य च । द्वासप्ततिर्महत्यस्ते पादास्ते द्वादश क्रमात् । अस्तात् प्राक् परयोः पक्षं गुरोर्व्वार्द्धक- वालते । पक्षं वृद्धोमहास्तेतु भृगुर्बालोदशाहिकः । पादास्ते तु दशाहानि वृद्धःशुक्रो दिनत्रयम्” । एवं व्रता- रम्भप्रतिष्ठयोर्वज्ज्यकालोक्तेः सिंहस्थरवौ तदकर्त्तव्यता- कल्पनं साहसमेव हरितालिकादिव्रते तद्वर्जनस्यासम्भवात् तस्य सिंहस्थरविकत्वेनैव निमित्तत्वात् तच्च हरिता- लिकाशब्दे वक्ष्यते । सिंहस्थरविककालस्याशुद्धिबोधक वाक्यस्य व्रतारम्भप्रतिष्ठाव्यतिरिक्तविषयकत्येनाप्युपत्तेः । “पूर्णे काले व्रतानां तु प्रतिष्ठां विधिवच्चरेत् । न तत्र कालनियमस्तत्र विघ्ने पराविदके इति” वचनात् पूर्ण्णकाले न समयाशुद्धिर्बाधिकेति केचित् । एतद्वचनस्यामूलकत्व- माहुरन्ये ।
📄 मूल मुद्रित पृष्ठ (1183,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।