उन्नतकाल पु० सि० शि० उक्ते छायातः कालज्ञानसाधने प्रक्रियाभेदे “पलश्रुतिघ्नस्त्रिगुणस्य वर्गोद्युज्येष्टकर्णाहति- हृद्भवेद्वां । इष्टान्त्यका तद्रहितान्त्यका या भवन्ति या उत्क्रमचापलिप्ताः । नतासवस्ते स्युरहर्दलं तैरूनीकृतं चोन्नतकाल एवम्” शि० । “त्रिज्यावर्गः पलकर्णेन गुण्यः द्युज्यया इष्टकर्णस्य च घातेन भाज्यः यत्फलं लभ्यते सेष्टान्त्यका । तयेष्टान्त्यया रहितया अन्त्याया यच्छेषं त- स्योत्क्रमेण धनुः कार्य्यं तस्य धनुषोयावत्यः कलास्ताव- न्तस्तस्मिन् कालेन नतासवोज्ञेयाः तैर्नतामुभिरूनीकृता- [] दिनदलासव उन्नतासवः स्युः । प्रकारान्तरेण त्रेरा- शिकत्रयेणोपपत्तिः । यदोष्टच्छायाकर्णेन द्वादशाङ्गुलशङ्क- र्लभ्यते तदा त्रिज्याकर्णेन क इति । अत्र त्रिज्याया द्वा- दश गुण इष्टकर्णो हरः । फलं महाशङ्कुः । अथ तस्य हृतिकरणार्थमनुपातः । यदि द्वादशाङ्गुशङ्कोर्विषुवत्कर्णः कर्णस्तदास्य महाशङ्कोः क इति । पूर्वं त्रिज्याया द्वादश गुण इद्रानीं हरः । अतस्तुल्यत्वाद्वादशाङ्कयोर्गुणहरयो- र्नाशे कृते सति त्रिज्यायाः पलकर्णो गुण इष्टच्छायाकर्णो हरः फलमिष्टहृतिः । अथेष्टान्त्याकरणायानुपातः । यदि द्युज्यया त्रिज्या लभ्यते तदिष्टहृत्या किमिति । इदानीं त्रिज्या गुणो द्युज्या हरः । हरयोर्घातो हर इति दुज्येष्टकर्णाहतिर्भवति । गुणयोर्घाते त्रिज्यावर्गः पल- कर्णगुणितो भवति । एवं फलमिष्टान्त्यका । तया वजि- ताया अन्त्याया यदवशेषं सा नतम्योत्क्रमज्या शरसंज्ञा । अतस्तस्या धनुरुत्क्रमेण स नतकालः स्यात् । नतकालो दिनार्धात् पतित उन्नतकालः स्यादित्युपपन्नम्” प्रमि०
📄 मूल मुद्रित पृष्ठ (1189-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।