उपजिह्वा स्त्री उपगता ऊर्द्ध्वमुखी जिह्वा यस्याः । १ काकी भेदे । प्रा० स० । २ उपरिस्थायां जिह्वायाञ्च (आलजिभ्) “उपजिह्वास्फिचौ बाहू” कायविभागे या० स्मृ० । सुश्रु- तोक्ते मांसदोषजे ३ रोगभेदे “अधिमांसार्व्वुदार्शोऽधिजि- ह्वोपजिह्वोपकुशगण्डशुण्डिकालजीमांससंघातौष्ठप्रकोपग- लगण्ड गण्डमालाप्रभृतयोमांसदोषजाः” स च सप्तसु- मुखरोगेषूपजिह्वाधिजिह्वोपकुशदन्तवैदर्भप्रभृतिषु जि- ह्वागतमुखरोगभेदः । मुखरोगविभागे” सुश्रु० । “जिह्वागताश्च कण्टकास्त्रिविधास्त्रिभिर्दोषैरलासौपजिह्विकेति पञ्चधा विभज्य “जिह्वाग्ररूपः श्वयथुर्हि जिह्वानुन्नाम्य जातः कफरक्तयोनिः । प्रसेककण्डूपरिदाहयुक्ता प्रकथ्यतेऽसा- वपजिह्विकेति” लक्षितः । अत्र स्वार्थे कन् । “उप- जिह्विकां तुसंलिख्य क्षारेण प्रतिसारयेत्” सुश्रु० । उपजिह्वे व इवार्थे कन् । ४ कीटभेदे हारा० कण्टकावृततनुत्वात्तथात्वम्
📄 मूल मुद्रित पृष्ठ (1206,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।