🕉️ 20 November 2026, Friday · 07:27:33 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

उपपातक
upapātaka
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
उपपातक संज्ञा पुं॰ [सं॰] छोटा पाप । उ॰——जे पातक उपपातक अहहीं, करम बचन मन भव कवि कहहीं ।—मानस, २ ।१६७ । विशेष—मनु के अनुसार परस्त्रीगमन, गुरुसेवात्याग, आत्मविक्रय, गोवध आदि उपपातक हैं ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
उप-पातक n. a secondary crime, minor offence (as killing kine, forgetting the Veda, breaking a vow of chastity, offending a Guru, selling the Soma plant &c.), Gaut. xxi, 11, &c.; Baudh. ii, 2, 12-14, &c.; Mn. xi, 66, &c.; Hariv. &c. (see also, Yājñ. ii, 210; iii, 225; 242).
📄 मूल मुद्रित पृष्ठ (202,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
उपपातकं A minor sin, crime or sin of the second degree; महापातकतुल्यानि पापान्युक्तानियानि तु । तानि पातकसंज्ञानि तन्न्यूनमुपपातकम् ॥; Y. 2. 210.
📄 मूल मुद्रित पृष्ठ (0325-b)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
उपपातक न० पातयति नरके पत--णिच्--ण्वुल् उप अल्पार्थे सादृश्ये वा प्रा० स० । पातकसदृशे ततोन्यूनफलके पापभेदे । “महापातकतुल्यानि पापान्युक्तानि यानि तु । तानि पातक संज्ञानि तन्न्यूनमुपपातकमिति” पैठीनसिः । पतनञ्च “द्वि- जातिकर्म्मभ्योहानिः पतनं परलोकासिद्धिस्तमेके नरकम्” गौतमोक्तम् । तस्य न्यूनत्वञ्चाल्पफलदातृत्वेन तस्याल्प- फलदातृत्वमाहाङ्गिराः “पातके तु सहस्रं स्यात् महत्सु द्विगुणं तथा । उपपापे तुरीयं स्यात् नरकं वर्ष्मसंक्षयात्” । केन केन कर्मणा च तज्जन्यते तन्निरूपितं प्रा० वि० । तत्र मनुः । “गोबधोऽयाज्यसंयाज्यपारदार्य्यात्मविक्रयः । पितृमातृगुरुत्यागः स्वाध्यायाग्नेः सुतस्य च । परि- वित्तिता चानुजेन परिवेदनमेव च । तयोर्दानञ्च कन्या- यास्तयोरेव च याजनम् । कन्याया दूषणञ्चैव वार्द्धुषित्वं व्रतच्युतिः । तडागारामदाराणामपत्यस्य च विक्रयः । व्रात्यताबान्धवत्यागो भृतकाध्यापनन्तथा । भृताच्चाध्य- यनादानमपण्यानाञ्च विक्रयः । सर्व्वाकरेष्वधीकारो महायन्त्रप्रवर्त्तनम् । हिंसौषधीनां स्त्र्याजीवोऽभिचारो मूलकर्म्म च । इन्धनार्थमशुषकाणां द्रुमापामवपातनम् । आत्मार्थञ्च क्रियारम्भो निन्दितान्नादनन्तथा । अनाहि- ताग्निता स्तेयमृणानाञ्चानपक्रिया । असच्छास्त्राधिग मनं कौशीलव्यस्य च क्रिया । धान्यकुप्यपशुस्तेयं मद्य- पस्त्रीनिषेवणम् । स्त्रीशूद्रविट्क्षत्रबधोनास्तिक्यञ्चोपपा- तकम्” । “अस्यार्थः । अयाज्यसंयाज्यमिति प्रतिग्रहा- ध्यापनङ्कथयति । त्यागो योगक्षेमाकरणम् । अनिमित्तं स्वाध्यायत्यागोऽधीतवेदविस्मरणम् । अग्नित्याग आल- स्यादिना । सुतत्यागः पोषणविनयाधानाद्यकरणेन चका- राद्भार्य्यात्यागोऽपि । परिवित्तिता कनिष्ठस्य भ्रातुर्दारा- ग्निहोत्रसयोगे सति ज्येष्ठस्य भ्रातुर्दाराग्निहोत्रसंयोग- प्रागभावः । कनिष्ठस्य परिवेदनं, चकारात् कन्याया अपि तथाभूतायाः परिवेदनीयत्वम् । परिवित्तिपरिवेदयोर्वर- त्वेन कन्यादानम् । तयोरेव विवाहादौ ऋत्विक्कार्य्यमिति । कन्याया दूषणमकन्येत्युक्तिः अङ्गुल्या योनिविदारणं वा [] वार्द्धुषिकत्वं ब्राह्मणक्षत्रिययोः । व्रतच्युतिरवकीर्णत्वम् । दाराणामपि परिणीतानामपि विक्रयः । अपत्यस्यानेक- विधस्य । व्रात्यता यथाकालमनुपनयनमसोमयाजित्वञ्च । बान्धवत्यागो बान्धवस्य सपिण्डादेरनिमित्तत्यागः । भृत- काध्यापनम् मूल्येन वेतनादिना विद्यार्पणम् । भृताच्च वेतनपरिगृहीताद्वेदादि विद्याग्रहणम् । अपण्यानां लाक्षा- दीनां सकृत्, गोरसादीनां चासकृत्, ब्राह्मणेन विक्रयः । सर्वाकरेषु सुवर्ण्णाद्युत्पत्तिस्थानेषु नियोगः । तैलादियन्त्रस्य शस्त्रतेजनादियन्त्रस्य च प्रवर्त्तनम् । धान्यादीनां यथा कथञ्चिन्नाशनं स्त्रियार्ज्जितधनजीवनम् । अभिचारः पर- हिंसार्थं जपादिकर्म, मूलकर्म वशीकरणं मूलादिक्रिया । इन्ध- नार्थम् द्रुमाणामशुष्काणां छेदनम् । आत्मार्थं पाकक्रिया न वैश्वदेवाद्यर्था । गणदेवलकतस्काराद्यन्नभक्षणम् । सा- मार्थ्येऽपि श्रौतस्मार्त्ताग्न्यपरिग्रहः । स्तेयं हेमनरा- श्वरजतभूमिमणिनिक्षेप्रेतरद्रव्यहरणम् । देवर्षिपितृसम्ब- न्धिन ऋणस्यानपशोधनम् । असंच्छास्त्राभिगमनम् पाष- ण्डशास्त्राभ्यासः । कुशीलवस्य कर्म तौर्य्यत्रिकं तस्य सत- तानुष्ठानम् । कुप्यस्यासारद्रव्यस्यताम्रकांस्यादेः स्तेयम् म- द्यपस्त्रिया मद्यपायाश्च स्त्रिया निषेवणम् ब्राह्मणेन । स्त्रियाः शूद्रवैश्यक्षत्रियाणाञ्च बधः । नास्तिक्यं नास्ति परलोक इति व्यवसितिः । उपपातकमेकैकम् “एकैकमुपपातकमिति” याज्ञवल्क्यवचनात् । एवञ्च गोबधादिनास्तिक्यान्तानि पञ्चाशदुपपातकानि । विष्णु
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
उपपातकं, क्ली, (उपपातयति नरके यत् । उप + पत् + णिच् + ण्वुल् । यद्वा उपमितं पातकेन ।) पापविशेषः । तत्तु ऊनपञ्चाश- द्विधंयथा । गोबधः १ अयाज्ययाजनम् २ पर- दारगमनम् ३ आत्मविक्रयः ४ गुरुत्यागः ५ मातृत्यागः ६ पितृत्यागः ७ एषां शुश्रूषाद्यकरणं त्यागः । स्वाध्यायत्यागः ८ स तु सर्व्वदा ब्रह्मयज्ञ- त्यागः । अधीतवेदविस्मरणञ्च । अग्नित्यागः ९ स तु स्मार्त्ताग्निहोत्रत्यागः । सुतत्यागः १० स तु तस्य संस्कारभरणाद्यकरणम् । परिवित्तिता ११ सा तु कनिष्ठेन आदौ विवाहे कृते ज्येष्ठस्य परिवेदनं १२ तत्तु अकृतदारज्येष्ठसत्त्वे कनि- ष्ठस्य । तयोः कन्यादानं १३ तयोर्याजनं १४ तत्तु तयोरेव विवाहादौ पौरोहित्यम् । कन्याया दूषणं १५ तत्तुं मैथुनवर्जमङ्गुलीप्रक्षेपादिना रूषणम् । अङ्गुल्या योनिविदारणमिति यावत् । वार्द्धुष्यं १६ तत्तु निषिद्धवृद्धिजीवनम् । व्रतलोपः १७ स तु ब्रह्मचारिणो मैथुनम् । तडागविक्रयः १८ आराम- विक्रयः १९ दारविक्रयः २० अपत्यविक्रयः २१ व्रात्यता २२ सा तु यथाकालमनुपनयनम् । बान्ध- वत्यागः २३ भृताध्यापनम् २४ तत्तु प्रतिनियत- [] वेतनग्रहणपूर्व्वमध्यापनम् । भृताध्ययनम् २५ तत्तु वेतनप्रदानपूर्व्वकाध्ययनम् । अपण्यानां विक्रयः २६ स तु तिललाक्षागोरसादौनां ब्राह्म- णेन विक्रयः । सर्व्वाकरेष्वधीकारः २७ स तु सु- वर्णाद्युत्पत्तिस्थानेषु राजाज्ञया अधिकारः । महा- यन्त्रप्रवर्त्तनं २८ तत्तु महतां उदकप्रवाहप्रतिबन्ध- हेतूनां सेतुबन्धादीनाञ्च प्रवर्त्तनं अथवा तैलादि- यन्त्रस्य शस्त्रतेजनादियन्त्रस्य च । ओषधिहिंसनं २९ तत्तु धान्यादीनां यथाकथञ्चिन्नाशः । स्त्र्या- जीवः ३० स तु भार्य्यादिस्त्रीणां वेश्यात्वं कृत्वा तदुपजीवनम् । अभिचारकर्म्म ३१ तत्तु श्येना- दिना यज्ञेन अनपराद्धस्य मारणम् । मूलकर्म्म ३२ तत्तुमन्त्रौषधादिना वशीकरणम् । इन्धनार्थ- मशुष्कद्रुमाणां छेदनं ३३ आत्मार्थं क्रियारम्भः ३४ स तु अनातुरस्य देवपित्राद्युद्देशमन्तरेण पाका- द्यनुष्ठानम् । निन्दितान्नस्य भक्षणम् ३५ तत्तु लशु- नादेः सकृदनिच्छया अथवा गणकदेवलतस्करा- द्यन्नभक्षणम् । अनाहिताग्निता ३६ सा तु सम- र्थस्य श्रौतस्मार्त्ताग्न्यपरिग्रहः । स्तेयं ३७ तत्तु सुवर्णद्रव्यादन्यसारद्रव्यापहरणम् । देवर्षिपितॄणां ऋणाशोधनं ३८ असच्छास्त्राभिगमनम् ३९ तत्तु श्रुतिस्मृतिविरुद्धशास्त्रशिक्षणम् पाषण्डशास्त्रा- भ्यासो वा । कौशीलव्यक्रिया ४० सा तु तौर्य्य- त्रिकस्य सततानुष्ठानम् । धान्यस्तेयं ४१ पशुस्तेयम् ४२ कुप्यस्तेयम् ४३ मद्यपस्त्रीनिषेवनम् ४४ स्त्रीबधः ४५ शूद्रबधः ४६ वैश्यबधः ४७ क्षत्रियबधः ४८ नास्तिक्यम् ४९ । तत्तु अदृष्टार्थकर्म्माभावबुद्धिः । नास्ति परलोक इति वा । इति मनुः शूलपाणिश्च ॥ (अस्य प्रायश्चित्तादिकं प्रायश्चित्तशब्दे द्रष्टव्यम् ॥)
📄 मूल मुद्रित पृष्ठ (1-257-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "उपपातक" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें