उपमारण न० उप--मृ--णिच्--ल्युट् । वरुणप्रघासे यज्ञेऽवभृ- थोदकसमीपं गत्वा हविषोऽप्सु प्रक्षेपे “उपमारणप्रकारश्च शत० ब्रा० २, ५, २, ४६, उक्तः “तुष्णीप्तेव प्रतिप्रस्थाता स्रुचं [] प्रगृह्णाति तद्ये वैश्वदेवेन यजमानयोर्वाससी परिहिते स्यातां ते एवात्रापि स्यातामथास्यै वारुण्यै पयस्यायै क्षामकर्षमिश्रमादायावभृथं यन्ति वरुण्यं वा एत- न्निर्वरुणतायै तत्र न साम गीयते न ह्यत्र साम्ना किञ्चन क्रियते तुष्णीमेवेत्याभ्यवेत्योपमारयति” “यजमा- नयोर्यजमानतत्पत्न्योः । क्षामकर्षमिश्रं क्षामोऽतिपा- केन दग्धः पात्रे संसक्तः कृष विलेखने कृष्यत इति कर्षः क्षामश्चासौ कर्षश्चेति क्षामकर्षस्तेन मिश्रं हविरादाय अवभृथमुदकं प्रति यन्ति एतत् क्षामकर्षमिश्रं हविः वरुण्यम् । सौमिकावभृथवत् प्रसक्तं सामगानं निषेधति तत्र न सामेति न ह्यत्रवरुणप्रघासे साम्ना किमपि प्रयो- जनं क्रियते अवभृथ समीपमभ्यवेत्य हविरुपमारयति अप्सु प्रक्षिपति” भा० । एतादृशोपमारणाभिप्रायेण कात्या० २०, ८, २१, सूत्रवृत्तौ “अतः कुम्भोपमारणान्तमेव पूर्वयो- रह्रोः कर्त्तव्यमित्युक्तम्” कर्केण ।
📄 मूल मुद्रित पृष्ठ (1241-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।