उपरति स्त्री उप + रम--क्तिन् । १ विरतौ, २ मृतौ ३ लभ्य प्राप्तावौ- दासीन्ये विषयेभ्य इन्द्रियाणां ४ निवारणे, ५ विहितकर्मणाम् विधानतस्त्यागरूपे संन्यासे “पुमर्थः कर्मणा नेति धीर्या सोप- रतिर्भवेत्” इत्युक्तरूपायां ६ बुद्धौ च । सेयमुपरतिर्ब्रह्मवि- चाराङ्गसाधनचतुष्टयान्तर्गतसाधनविशेषः तानि च साध- नानि विवेकचूडामणौ सलक्षणमचार्य्येण दर्शितानि यथा “साधनान्यत्र चत्वारि कथितानि मनीषिभिः । येषु सत्- स्वेव सन्निष्ठा यदभावे न सिद्ध्यति । आदौ नित्यानित्य वस्तुविवेकः परिगण्यते । इहामुत्र फलभोगविरागस्तदन- न्तरम् । शमादिषट्कसम्पत्तिर्मुमुक्षुत्वमिति स्फुटम् । ब्रह्म सत्यं जगन्मिथ्येत्येवंरूपो विनिश्चयः । सोऽयं नित्यानित्य- वस्तुविवेकः समुदाहृतः । तद्वैराग्यं जिहासा या दर्शन- श्रवणादिभिः । देहादिब्रह्मपर्य्यन्ते ह्यनित्ये भोग्यवस्तुनि । स्वलक्ष्ये नियतावस्था मनसः शम उच्यते । विषयेभ्यः परा- वर्त्य स्थापनं स्वस्वगोलके । उभयेषामिन्द्रियाणां स दमः परिकीर्त्तितः । बाह्यानालम्बनं वृत्तेरेषोपरतिरुत्तमा । सहनं सर्वदुःखानामप्रतीकारपूर्व्वकम् । चिन्ताविलाप- रहितं सा तितिक्षा निगद्यते । शास्त्रस्य गुरुवाक्यस्य स- त्यबुद्ध्यवधारणम् । सा श्रद्धा कथिता सद्भिर्यया वस्तूपल- भ्यते । सर्व्वदा स्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्व्वदा । तत्समाधानमित्युक्तं न तु चित्तस्य लालनम् । अह- ङ्कारादिदेहान्तान् बन्धानज्ञानकल्पितान् । स्वस्वरूपा- वबोधेन मोक्तुमिच्छा मुमुक्षुता । मन्दमध्यमरूपापि वैराग्येण, शमादिना, । प्रसादेन गुरोः, सय प्रवृद्धा सूयते फलम् । वैराग्यञ्च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते । तस्मिन्नेवार्थवन्तः स्युः फलवन्तः शमादयः । एतयोर्मन्दता यत्र विरक्तत्वमुमुक्षयोः । मरौ सलिलवत् तत्र शमादेर्भानमात्रता । मोक्षकारणसामग्री भक्तिरेव ग- रीयसी । स्वस्वरूपानुसन्धानं भक्तिरित्यभिधीयते । स्वात्म- तत्त्वानुसन्धानं भक्तिरित्यपरे जगुः । उक्तसाधनसम्पन्न- [] स्तत्त्वजिज्ञासुरात्मनः । उपसीदेत् गुरुं प्राज्ञं यतो बन्धविमोक्षणम्”
📄 मूल मुद्रित पृष्ठ (1284-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।