उपरिचर त्रि० उपरि + चर--ट । १ ऊर्द्धचरे विहगादौ । २ रा- जभेदे सु० । स च वसुनामा चेदिदेशपतिः शक्रध्वजपूजा- [] प्रवर्त्तकः । तस्येतिवृत्तं च भा० आ० ६३ अ० । “राजो- परिचरोनाम धर्म्मनित्योमहीपतिः” इत्युपक्रम्य तु- ष्टेन शक्रेण तस्मै आकाशगं विमानं दत्तं तत्र चरणादु- परिचरनामेःत्युक्तं यथा “देवोपभोग्यं दिव्यञ्च आकाशे स्फाटिकं महत् । आकाशगं त्वां मद्दत्तं विमानमुपपत्- स्यते । त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः । चरिष्य- स्युपरिष्ठो हि देवो विग्रहवानिव । ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम् । धारयिष्यति संग्रामे या त्वां शस्त्रैरविक्षतम् । लक्षणं चैतदेवेह भविता ते नराधिप । इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत् । वैशम्पायन उवाच । यष्टिञ्च वैणवीं तस्मै ददौ वृत्रनिसूदनः । इष्ट- प्रदानमुद्दिश्य शिष्टानां प्रतिपालनीम् । तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा । प्रवेशं कारयामास गते संवत्सरे तदा । ततः प्रभृति चाद्यापि यष्टेः क्षितिप- सत्तमैः । प्रवेशः क्रियते राजन्! यथा तेन प्रवर्त्तितः । अपरेद्युस्ततस्तस्याः क्रियतेऽत्युच्छ्रयो नृपैः । अलङ्कृ- तायाः पिटकैर्गन्धैर्म्माल्यैश्च भूषणैः । माल्यदामपरिक्षिप्ता विधिवत् क्रियतेऽपि च । मगवान् पूज्यते चात्र हंस- रूपेण शङ्करः । स्वयमेव गृहीतेन वसोः प्रीत्या महा- त्मनः । स तां पूजां महेन्द्रस्तु दृष्ट्वा देवः कृतां शुभाम् । वसुना राजमुख्येन प्रीतिमानब्रवीत् प्रभुः । ये पूजयि- ष्यन्ति नरा राजानश्च महं मम । कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः । तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति । तेषां स्फीतो जनपदो मुदितश्च भविष्यति । एवं महात्मना तेन महेन्द्रेण नराधिपः । वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः । उत्सवं कारयिष्यन्ति मदा शक्रस्य ये नराः । भूमिरत्नादिभिर्द्दानैस्तथा पूज्या भवन्ति ते । वरदानमहायज्ञैस्तथा शक्रोत्सवेन च । संपूजितो मघवता वसुश्चेदीश्वरो नृपः । पालयाम्मस धर्म्मेण चेदिस्थः पृथिवीमिमाम् । इन्द्रप्रीत्या चेदिपति- श्चकारेन्द्रमहं वसुः । पुत्त्राश्चास्य महावीर्य्याः पञ्चासन्न- मितौजसः । नानाराज्येषु तान् पुत्त्रान् स सम्राडभ्यषे- चयत् । महारथो मागधानां विश्रुतो यो वृहद्रथः । प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम् । मावेल्लश्च यदुश्चैव राजन्यश्चापराजितः । एते तस्य सुता राजन्रा- जर्षेर्भूरितेजसः । न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च । वासवाः पञ्च राजानः पृथग्वंशाश्च शाश्वताः । वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम् । उपतस्थु- [] र्महात्मानं गन्धर्वाप्सरसोनृपम् । राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम् । पुरोपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः । अरौत्सीच्चेतनायुक्तः कामात् कोलाहलः किल । गिरिं कोलाहलं तन्तु पदा वसुरताडयत् । निश्चक्राम ततस्तेन प्रहारविवरेण सा । तस्यां नद्यामजनयन्मिथुनं पर्वतः स्वयम् । तस्माद्विमोक्षणात् प्रीता नदी राज्ञे न्यवे- दयत् । यः पुमानभवत्तत्रतं स राजर्षिसत्तमः । वसुर्वसु- प्रदश्चक्रे सेनापतिमरिन्दमः । चकार पत्नीं कन्यान्तु तथा ता गिरिकां नृपः” ।
📄 मूल मुद्रित पृष्ठ (1319-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।