उपवसथ पु० उपेत्य वसत्यत्र उप + वस--अधारे अथ । १ ग्रामे हेमच० । “यद्याहिताग्निरुपवसथे म्रियते कथमस्य यज्ञः स्यात्” ऐत० “यजमानस्य समीपे वसन्ति देवा अस्मिन्नह्नि आधारे अथ । २ यागपूर्व्वदिवसे । तन्निर्वचनादिकं शत० ब्रा० १, ११, १, ७, २, दर्शितं यथा “अथातोऽशनानशनस्यैव । तदुहाषाढः सावयसोऽनशन मेव व्रतं मेने मनोहवै देवा मनुष्यस्याजानन्ति तत् एन- मेतद्व्रतमुपयन्तं विदुः प्रातर्नो यक्ष्यत इति तेऽस्य विश्वे देवा गृहानागच्छन्ति तेऽस्य गृहेषूपवसन्ति स उपवस- थः । तत्त्वेवानवक्लुप्तम् । यो मनुष्येष्वनश्नत्सु पूर्व्वोऽ- [] श्नीयादथ किमु यो देवेष्वनश्नत्सु पूर्व्वोऽश्नीयात्तस्मादु नैवाश्नीयात् । तदुहोवाच याज्ञवल्क्यः । यदि नाश्नाति पितृदेवत्योभवति यद्यु अश्नाति देवानत्यश्नातीति स यदेवाशितमनशितं तदश्नीयादिति यस्य वै हविर्न गृह्णन्ति तदशितमनशितं स यदश्नाति तेनापितृदेव- त्यो भवति यद्यु तदश्नाति यस्य हविर्न गृह्णन्ति तेनो देवान्नात्यश्नाति । स वा आरण्यमेवाश्नीयात्” “व्रत- प्रसङ्गादागतं तद्विसर्जनं समाप्य पूर्व्वेद्युर्यजमानेन व्रतानन्तरं यत् कर्त्तव्यं तद्वक्तव्यं प्रतिजानीते अथेति । यतो ब्रतानन्तरमशनानशनापरनामकमारण्याद्यशनमेव यजमानेन कर्त्तव्यम् अतस्तदनन्तरमेव तस्य निरूपणं क्रियत इत्यर्थः । प्रतिज्ञा तस्याशनानशनपक्षस्य प्रशंसार्थम् । केवलानशनपक्षं निरसितुमुपन्यस्यति तदु हेति । तत्त- स्मिन्नशनाशननविषये अनशनं सर्व्वात्मना अशनत्यागम् । उपवसथनामनिर्वचनेन देवानामागभनं द्रढयति तेऽस्येति उपसमीपे यजमानस्य वसन्ति देवा अस्मिन्निति पूर्व दिवस उपवसथनामक इत्यर्थः । गृहे मनुष्येष्वागतेष्वन श्नत्सु पूर्व्वोऽश्नीयादिति यत्तस्यानवकॢप्तिः किमु वक्तव्या? अषाढेन चेन्मुनिना निर्णीतोऽनशनपक्षः तर्हि स एव परमार्थः । कथमशनानशनपक्षः? इति चेत् अनेन मु- निनैव स्वमतसमर्थनाय प्रत्येकपक्षौ दूषयित्वा याज्ञवल्केन सोपपत्तिना नोभयावित्युक्तम् । यदीति अशनानशनलक्षणं यदीति । दैविके हि कर्म्मणि देवान् प्रत्युद्दिष्टस्यैव हविषः प्रथममनुपयोगः काममन्यस्य, पित्र्ये पुनरनिय माद्धविषोऽन्यदाप अनुपयोग्यमिति पितृदैवत्थतामापा- दयतीति याज्ञवल्क्यस्याशयः । तत् किं दैविके कर्म्मणि प्रागपि भोक्तव्यमिति यस्तमाशयमजानानः शङ्कते त- माह यद्यु इति यदि तु अश्नाति तदा अशिशिषतो देवानतिक्रम्य स्वयं भुक्तवान् स्यात् । अशनानशनप- क्षयोरुभयोरपि दोषश्चेत् का गतिरिति यद्द्रव्यमशित मप्यनशितवद्भवति तदश्नीयात् । यस्य द्रव्यस्य संबन्ध्य- न्नं हविष्ट्वेन देवा न गृह्णन्ति तदशितमपि सदनशित वद्भवति । तथात्वे यथोदीरितदोषद्वयाभावमाह स यदिति । आरण्यग्रहणं प्राकृतदर्शपूर्णमासहविर्व्यतिरिक्तोपलक्ष- णम्” भा० । तत्र विहितः ठञ् भावे अथ । वैदिके कर्मभेदे तच्च कर्म कात्या० ८, ८, ८, दर्शितम् । नवमाध्यायादौ “उक्तमौपवसथ्यं कर्मेति” कर्कः ।
📄 मूल मुद्रित पृष्ठ (1322-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।