उपस्थापक त्रि० उप + स्था--णिच्--ण्वुल् । १ स्मारके अनुभव जन्यसंस्कारेण चित्तेऽनुसन्धानसम्पादके । उपस्थितौ च समानविषयत्वं तन्त्रम् यद्विषयकोऽनुभवस्तद्विषयकः संस्कारस्तद्विषयिकैव स्मृतिरिति कार्यकारणभावः स च समवायेनैव, तेनान्यानुभवसंस्काराभ्यां नान्यस्य स्मरणम् । तत्र च सादृश्यादिज्ञानादि सहकारि कारणम् तत्सम- वहितसंस्क्यरस्यैव स्मृतौ हेतुत्वात् । उपेक्षात्मकज्ञानेन च संस्कारो न जन्यते । संस्कारश्च चरमफलनाश्यः तेन स्मृ तधारायां न संस्कारान्तरकल्पनमिति वेदा० प० । क्वचिच्च दोर्घकालरोगादिना जन्मान्तरेण वा तन्नाशः । जन्मान्तरन्तु कर्मविशेषाभावसहकृतमेव तन्नाशकम् तेन “जातिं स्मरति पौर्व्विकीम्” इत्यादिमन्वाद्युक्तकर्मविशेष- सत्त्वे न तन्नाशः । उपस्थापकञ्च यथा पदज्ञानं पदार्थस्य हस्तिज्ञानं हस्तिपकस्येत्यादि एकसंम्बन्धिज्ञानस्यापर- सम्बन्धिस्मारकत्वनियमित् पदपदार्थयोश्च शक्तिसम्बन्धेन सम्बन्धितेति तथात्वम् । भावे ल्युट् । उपस्थापन--उपस्थिति साधन व्यापारे उद्वो- षकसमवधाने तत् सहकारे । उपस्थापनं प्रयोजनमस्य प्र- प्रवचना० छ । उपस्थापनीय उपस्थापनसाधने उद्बोधकादौ त्रि० उप + स्थापि--कर्म्मणि अनीयर् । स्मार्य्ये त्रि० ।
📄 मूल मुद्रित पृष्ठ (1340,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।