उपाञ्जन न० उप + अन्ज--ल्युट् । १ लेपने “मर्ज्जनोपाञ्ज- नैर्वेश्म पुन पाकेन मृण्मयम्” मनु २ गोमयादिनानु- लेपने च “सम्मार्जनोपाञ्जनेन सेकेनोल्ले खनेन च । गवाञ्च परिवासेन भूमिः शुध्यति पञ्चभि” “ज्ञानं तपोऽग्निरा- हारो मृण्मनो वार्य्युपाञ्जनम् । वायुश्च कर्मकालौ च शुद्धेः कर्त्तणि देहिनाम्” मनुः उपाञ्जनमनुलेपनम्” कुल्लू० । आधारे ल्युट् । ३ अञ्जनाधारे हस्तादौ च । “चतुर्द्धैक आहवनीयस्योपयमनीष्वाग्नीध्रीयस्याक्षोपाञ्जने च” कात्या० ८, ६, ३४, तृतीयं चतुर्भागमक्षोपाञ्जने अक्ष- धुरावनक्तात्यञ्जनार्थाज्यशेषे पत्नीपाणावित्यर्थः” कर्कः । अक्षधुराञ्जनप्रकारस्तत्रैव “दक्षिणया द्वाराऽऽनीता पत्नी पाणिभ्यां शेषं प्रतिगृह्याऽक्षधुरावनक्ति “पराग् देवश्रुति- रिति” “प्रतिप्रस्थात्रा समानीता पत्नी होमशेषेणाज्ये- नाक्षस्थाज्यस्रवभागावपमृज्यादिति सूत्रार्थः” वेददी० ।
📄 मूल मुद्रित पृष्ठ (1347,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।